________________ // 35 // // 36 // // 37 // // 38 // // 39 // // 40 // उत्तीर्य कुञ्जरस्कन्धादवनीपतिकुञ्जरः / प्रविवेश तदुद्यानं, सिंहो गिरिगुहामिव वज्रसंवर्मितमिवाऽभेद्यं मन्मथपत्रिणाम् / रागरोगागदङ्कारं, द्वेषद्वेषिद्विषन्तपम् क्रोधानलनवाम्भोदं, मानगुममहागजम् / मायोरगीगरुत्मन्तं, लोभशैलमहाशनिम् मोहान्धकारतरणि, तपस्तेजोऽनलारणिम् / क्षमासर्वस्वधरणिं, बोधिबीजाम्बुसारणिम् आराममिव धर्मद्रोरात्मारामं महामुनिम् / / आरादरिन्दमाचार्यमद्राक्षीत् तत्र पार्थिवः / कांश्चिदुत्कटिकासीनान्, कांश्चित् पद्मासनस्थितान् / गोदोहिकासनान् कांश्चित्, कांश्चिद् वीरासनासितान् वज्रासनजुषः कांश्चित्, कांश्चिद् भद्रासनस्थितान् / कांश्चिद् दण्डासनासीनान्, कांश्चिद् वल्गुलिकासनान् कांश्चित् क्रौञ्चनिषदनान् कांश्चिद्धंसासनस्थितान् / पर्यङ्कासनिनः कांश्चित्, काश्चिदुष्ट्रासनस्थितान् कांश्चित् ताासनान् कांश्चित्, कपालीकरणस्थितान् / आम्रकुब्जासनान् कांश्चित्, कांश्चन स्वस्तिकासनान् दण्डपद्मासनान् कांश्चित्, कांश्चित् सोपाश्रयासनान् / कायोत्सर्गस्थितान् कांश्चित्, कांश्चिदुक्षासनस्थितान् निरपेक्षान् शरीरेऽपि, नियूंढस्वप्रतिश्रवान् / विविधेषूपसर्गेषु, समरेषु भयनिव . अन्तरङ्गानरीन् जिष्णून, सहिष्णूंश्च परीषहान् / तपोध्यानैरलम्भूष्णून, साधूनपि ददर्श सः 220 // 41 / / // 42 / / // 43 // // 44 // // 45 // // 46 //