________________ // 57 // * // 58 // // 59 // // 60 // // 61 // य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः / / अस्त्येवं परलोकोऽपि, चेतनस्य न संशयः . यात्येकमेव चैतन्यं, जन्मतोऽन्यत्र जन्मनि / शैशवादिव तारुण्ये, तारुण्यादिव वार्धके विना हि पूर्वचैतन्यानुवृत्तिं जातमात्रकः।। अशिक्षितः कथं बालो, मुखमर्पयति स्तने ? अचेतनेभ्यो भूतेभ्यश्चेतनो जायते कथम् ? / कारणस्याऽनुरूपं हि, कार्यं जगति दृश्यते प्रत्येकं युगपद् वा स्याद्, भूतेभ्यश्चेतनो ननु / आद्यः पक्षो यदि तदा, तावन्तश्चेतना न किम् ? अथ द्वितीयः पक्षः स्यात्, तदा भिन्नस्वभावकैः / भूतैरेकस्वभावोऽयं जन्यते चेतनः कथम् रूपगन्धरसस्पर्शगुणा तावद् वसुन्धरा / प्रत्यक्षमेतदापोऽपि, रूपस्पर्शरसात्मिकाः रूपस्पर्शगुणं तेज, एकस्पर्शगुणो मरुत् / अमीषामेवमाबालं, व्यक्ता भिन्नस्वभावता तोयादिभ्यो विसदृशां, मुक्तानां जन्मदर्शनात् / भूतेभ्योऽचेतनेभ्योऽपि, चेतन: सम्भवीति चेत् तन्न युक्तं यतस्तोयं, मौक्तिकादिषु दृश्यते / एकं पौद्गलिकं रूपं, वैसदृश्यं ततः कथम् ? किञ्च पिष्टोदकादिभ्यो, मदशक्तिरचेतना / अचेतनेभ्यो जातेति, दृष्टान्तश्चेतने कथम् ? न च देहात्मनोरैक्यमिति वाच्यं कदाचन / यद्देहे तदवस्थेऽपि, चेतनो नोपलभ्यते 194 // 63 // // 64 // पता // 66 // // 67 // ते / / // 68 //