________________ // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // य एव म्रियते जन्तुः, स एवोत्पद्यते पुनः / इत्येतदपि वाङ्मात्रं, सर्वथाऽनुपपत्तितः / शिरीषकल्पे तत्तल्पे, रूपलावण्यचारुभिः / रमणीभिः समं स्वामी, रमतामविशङ्कितम् भोज्यान्यमृतरूपाणि, पेयानि च यथारुचि / स्वाद्यन्तां स्वामिना स्वैरं, स वैरी यो निषेधति कर्पूरागरुकस्तूरीचन्दनादिभिरार्चितः / एकसौरभ्यनिष्पन्न इव तिष्ठ दिवानिशम् उद्यानयानजगतीचित्रशालादिशालि यत् / तत्तत् क्षितीश ! प्रेक्षस्व, चक्षुःप्रीत्यै प्रतिक्षणम् वेणुवीणामृदङ्गानुनादिभिर्गीतनिस्वनैः / दिवानिशं तव स्वामिन्नस्तु कर्णरसायनम् यावज्जीवेत् सुखं जीवेत्, तावद् वैषयिकैः सुखैः / न ताम्येद् धर्मकार्याय, धर्माधर्मफलं क्व तत् ? स्वयम्बुद्धस्ततोऽवादीनास्तिकैः स्वपरारिभिः / अन्धैरन्धा इवाकृष्य, पात्यन्ते धिगधो जनाः स्वसंवेदनवेद्योऽयमात्माऽस्ति सुखदुःखवित् / निषेधितुं बाधाभावाच्छक्यते न हि केनचित् सुखितोऽहं दुःखितोऽहमिति कस्याऽपि ज़ातुचित् / जायते प्रत्ययो नैव, विनाऽऽत्मानमबाधितः स्वशरीरे स्वसंवित्तरेवमात्मनि साधिते / अस्त्येव परकीयेऽपि, शरीरे सोऽनुमानतः निश्चीयते शरीरेऽस्ति, परकीयेऽपि चेतनः / सर्वत्र बुद्धिपूर्वायाः क्रियाया उपलम्भतः // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // . 103