________________ तदनुप्रेक्ष्य मुखपटं दत्त्वा लघुवन्दनद्वयं विधिना / सन्दिश्यैकेन तयोरपरेण प्रतिलिखेदुपधिम् // 41 // उदिते सवितरि वसतिं प्रमृज्य यत्नेन रेणुपटलमथ / संशोध्य कीटिकादिक-मृतजन्तुं स्तत्र संख्याय . . // 42 // संगृह्य च षट्पादिकाश्छायायां पुञ्जकं परिष्ठाप्य / खेलादिकृते कार्या मल्लकभूतिर्नवोद्धृत्य / // 43 // निक्षिप्ते पुञ्जादा-वीर्यापथिकां यतिः प्रतिक्रामेत् / यः संसक्तां वसतिं प्रमार्जयेत् सोऽपि, च तथैव // 44 // प्रातः प्रेक्षाद्वितये (?) विहिते वसतिः प्रमृज्यते प्रकटम् / अङ्गप्रेक्षानन्तर-मपराह्ने मृज्यते वसतिः // 45 // दृष्टिप्रेक्षणपूर्वं प्रमार्जयेद्दण्डकाँश्च कुड्यं च / .. भूमिश्च रजोहरणे-नाभिग्रहिकस्तदितरो, वा // 46 // प्रतिलेखनाऽत्र कथिता यत्किल दृष्ट्या निरीक्षणं क्रियते / . वसनरजोहरणाभ्यां प्रमार्जनामाहुरर्हन्तः // 47 // संशोध्य च हस्तशतं ज्ञात्वा प्रसवश्च योषिदादीनाम् / अस्थ्यादि बहिः क्षिप्त्वा वसतिं शुद्धां प्रवेदयति // 48 // कालग्राही तु मुनिः प्रेक्ष्य मुखानन्तकं विनयकर्म / कृत्वा वसतिं शुद्धां कालं च गुरोः प्रवेदयति // 49 // उपयुक्तः स्वाध्यायं प्रस्थापयेत्तत्र वाचनाचार्यः / सिद्धान्तोदितविधिना तदनुज्ञातस्ततः शिष्यः // 50 // शीतर्तुचतुर्मास्यां प्रेक्ष्य मुखानन्तकं गुरोः पुरतः / सन्दिश्य च कल्पं हुस्ववन्दनाभ्यां परिदधीत // 51 // दत्त्वाऽध्यापकपुरतो वन्दनकं हुस्ववन्दनयुगेन। .. सन्देश्य वाचनामथ सूत्रमधीयीत मण्डल्याम् . // 52 // 130