________________ // 100 // // 101 // // 102 // // 103 // // 104 // // 105 // उत्पद्यन्ते विनश्यन्ति, कोटिशः क्षुद्रजन्तवः / परार्थबद्धबुद्धीनां, सतां पुण्यैः समुद्भवः परोपकारप्रवणाः, सदा स्वार्थपराङ्मुखाः / क्वचित्क्वचिद्विलोक्यन्ते, विरला: सज्जना जनाः जन्मापि च प्रमोदाय, शोकाय च तदत्ययः / अशिष्टानां तु लोकाना - मुभयस्मिन् विपर्ययः धराधरा महीयांसो, गम्भीरा वारिराशयः / तथापि च समं शिष्टै - रौपम्यं लेभिरे न ते येषां चित्तं च वित्तं च, वचः कायो विनश्वरः / परेषामुपकाराय, वेधसेह विनिर्मितः आत्मानं दुःस्थितं कृत्वा, परं कुर्वन्ति सुस्थितम् / यथा वृक्षास्तथा सन्तः, परोपकृतये रताः छायया सुखयन्त्यन्यं, सहन्ते स्वयमातपम् / . पुष्पन्ति च परस्यार्थे, फलन्ति च महाद्रुमाः . स्वोदरं भ्रियते कष्टा - दिनान्ते वायसैरपि / परार्थकरणासक्तो, यो जीवति स जीवति क्लेशेनोपाय॑ वित्तानि, ददुर्धर्मे नरोत्तमाः / यथा लोकोपकाराय, पयः पीत्वा पयोधराः कथं सन्तो न शस्यन्ते, हिमांशुकिरणोज्ज्वलाः / येषां सदुपकारेण, जायन्ते सुखिनो जनाः सज्जनाश्चन्दनं चन्द्रो, यदि न स्युर्महीतले / तदा दुःखोपतप्तानां, कि स्यानिवृत्तिकारणम् अज्ञानध्वान्तसन्तान - विध्वंसनपटीयसः / रवेरिव कराः सन्तः, परोपकृतिकारिणः . 103 // 106 // // 107 // // 108 // // 109 // // 110 // // 111 //