________________ // 88 / [श्रोतव्यं शुद्धसिद्धान्त -सारं च साधुभ्यः सदा / तथा तदनुसारेण, विधेया सदनुष्ठितिः / कार्यश्च सदौदासीन्य - भावपरिहारस्तथा / निन्दाऽश्रवणं दोषेषु, मूकता दुष्टनिग्रहः ... // 89 / सदाचारप्रमत्तानां, मतमेकान्तशिक्षणम् / यथाऽन्योऽपि न जानाति, तथा हितं मिताक्षरैः] // 90 / अत्रार्थे श्रेणिको ज्ञात - मभयश्च महामतिः / धर्मदृढमना आद्यो, द्वितीयः स्थिरकारक: // 91 / तिलानां यादृशो वास - स्तैलस्यापि च तादृशः / .. एवंविधा च सङ्गीता, जिनैर्बोधिर्भवान्तरे // 92 // चौरयुग्ममिह ज्ञातं, वासनाविषये मतम् / एकस्य सुलभा बोधि - द्वितीयस्य च दुर्लभा // 93 // सर्वदा मानसे येषां, गुरुभक्तिर्गरीयसी / पुण्यानुबन्धिपुण्येन, तेषां जन्मेह गीयते / / 94 // औदासीन्यं गुरौ येषा - मृद्ध्यादि च विलोक्यते / पापानुबन्धिपुण्येन, तेषां जन्म निगद्यते // 95 // अभक्तिर्मानसे येषां, गुरौ भवति भूयसी / पापानुबन्धिपापेन, तेषां जन्मेति लक्ष्यते // 96 // पूर्वं कृता करिष्यामः, साम्प्रतं व्याकुला वयम् / गुरुभक्ति प्रति प्रोचु-र्ये तेषां ननु विस्मृता // 97 // कालरात्रिर्यकारूढा, अविज्ञातसमागमा समाप्यते क्षणादेव, यस्यां कार्यपरम्परा // 98 // किं बहुना विचारेण, यदि कार्य सुखैर्जनाः / तत्सर्वकुग्रहत्यागाद्-गुरुभक्तिविधीयताम् // 99 // 102 .