________________ // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // सर्वापायविनिर्मुक्तः, सर्वशिष्टनिषेवितः / माभीः प्रदायको लोके, धर्म एव न चापरः जननी जनको भ्राता, पुत्रः पुत्री सुहृद्धनम् / एतानि कृत्रिमाण्येव, धर्मः पुनरकृत्रिमः तिष्ठन्त्यर्था गृहेष्वेव, श्मशानेषु च बान्धवाः / दत्त्वा जलाञ्जलिं भूयो, मोदन्ते गृहमागताः परलोकप्रयाणस्थं, विमुक्तं मित्रबान्धवैः / धर्माधर्माविमं जीवं, गच्छन्तमनुगच्छतः यत्र यत्र प्रयात्येष, जीवो धर्मसहायकः / तत्र तत्रास्य सौख्यानि, जायन्ते चोत्तराः श्रियः यत्र यत्र प्रयात्येष, जीवः पापसमन्वितः / तत्र तत्रास्य दुःखानि, दारिद्र्यं च प्रजायते दुःखद्विषो जनाः सर्वे, सर्वेऽपि सुखलिप्सवः / सुखं च धर्मतः सर्वं, दुःखं पुनरधर्मतः . जानन्तोऽप्येवमत्यर्थं, महामोहवशंगताः / . सक्ताः सांसारिके सौख्ये, धयं कर्म न कुर्वते सुखे वैषयिके लुब्धाः, प्रार्थयन्तस्तदेव हि / दुःसहान्यपि दुःखानि, गणयन्ति न देहिनः हस्त्यादिभ्यो महाभीति, विगणय्य विमूढधीः / मधुबिन्दुरसासक्तो, यथा कूपगतो नरः तदहो मानुषत्वादि - सामग्री प्राप्य दुर्लभाम् / सर्वसौख्यकरे जैने, धर्मे यत्नो विधीयताम् मानुषत्वं हि सद्धर्म-मूलनीवीसमं बुधैः / कथ्यते समये श्रेष्ठि - पुत्रत्रयनिदर्शनात् // 34 // // 35 // // 36 // // 37 // // 38 // // 39 //