________________ // 4 // // 8 // एवं कृतनमस्कारः, स्वान्योरकृतिवाञ्छया / वक्ष्ये प्रकरणं नाम्ना, धर्मरत्नकरण्डकम् / धर्माधर्मों 1 जिने पूजा 2, गुरुभक्तिरकृत्रिमा 3 / परोपकारः 4 सन्तोष: 5, संसारासारतामतिः 6 शोकशङ्कोः समुच्छेद 7 श्चेतसो निष्कषायिता 8 / सर्वलोकविरुद्धानां, दूरतः परिवर्जनम् 9 दानं 10 शीलं 11 तपो 12 भावः 13, शिष्टसङ्गो 14 विनीतता 15 / विषयेषु च वैमुख्यं 16, विवेको 17 मृदुभाषिता 18 // 7 // सर्वधर्मशिरोरत्नं, दयाधर्मः सदोत्तमः 19 / विधिवत्सङ्घपूजा च 20, सर्वत्रामी न सद्गुणाः धर्माधर्मादिकामेनां, सङ्घपूजावसानिकाम् / वक्ष्येऽहमधिकाराणा - मानुपूर्वृह विंशतिम् / // 9 // धर्मः पुण्यं वृषः श्रेयः, सद्वृत्तं सुकृतं शुभम् / सदनुष्ठानमित्याद्याः, शब्दास्तुल्यार्थवाचकाः. // 10 // अधर्मः किल्बिषं पाप - मवद्यं दुष्कृतं तथा / दुरनुष्ठानमित्याद्याः, शब्दास्तुल्यार्थवाचकाः // 11 // मानुष्यं शोभनो देशः, शुभा जाति: शुभं कुलम् / सुरूपं दीर्घमायुष्य - मारोग्यं बुद्धिपाटवम् // 12 // कल्याणमित्रसंसर्गः, पापमित्रविवर्जनम् / शुश्रूषा सुश्रुतिश्चेव, सुकलत्रादिपरिच्छदः // 13 // अन्तरङ्गद्विषां मान्द्य - मौदार्यं पापभीरुता / सुनीतौ प्रीतिरित्याद्या, बहवो धर्महेतवः / // 14 // कुदेशः कुत्सितो वासः, कुजातिः कुत्सिता गतिः। / कुशास्त्राणि कुमित्राणि, कुकलत्रादिपरिच्छदः // 15 // .64