________________ रात्रिभुक्तेनिश्चयस्या-ऽऽराधनेऽथ विराधने। . मित्रत्रयस्य दृष्टान्तः, प्रोच्यमानो निशम्यताम् // 69 / 102 / / सामायिकं स्यात्समताविहीनं, निरर्थकं भव्यजनास्तदेतत् / आराध्यतां केसरिवद्भवद्भि-र्यथा समस्तानि सुखानि वः स्यु:७०।१०३ भव्यैः प्रतिक्रमणमादरणीयमेत-द्यत्पञ्चधा जिनवरैर्गदितं हितार्थम् / पापानिवृत्तिरसकृत्सुकृते प्रवृत्तिरित्थं बुधैर्यदभिधार्थ उदीरितश्च 71 / 104 दानादिधर्मस्य विशेषपोषं, धत्ते ततः पौषधमाहुरायः / तं केऽपि धन्याः प्रतिपालयन्ति, यथा सुदतव्यवहारिधुर्यः 72 / 105 . वित्तानि पात्रेषु वपन्तु हे जनाः !, भवाभिलाष्ो यदि वो न विद्यते / तादृक्षमसूणमसारसम्पदां, फलं हि दानादपरं न विद्यते // 73 / 106 // गुणानुरागं गुणवज्जनेषु, साधर्मिकाणां सृजतां विधेयम् / .. वात्सल्यमुत्फुल्लधियाऽऽस्तिकौघैः, श्रीदण्डवीर्येण यथा कृतं तत् // श्रीज्ञानसाधारणवित्तमास्तिकैः, सङ्घानुमत्या न पुनर्निजेच्छया। व्यापार्यमत्राऽपि जिनागमोदितं, श्राद्धद्वयोदाहरणं निगद्यते॥७५।१०८ // आचार्यप्रवरश्रीमद्वर्धमानसूरिविरचितः ॥धर्मरत्नकरण्डकः // सर्वनीतिप्रणेतारं, सर्वधर्मप्रदर्शकम् / सर्वविद्यालतामूलं नौमि श्रीनाभिनन्दनम् सर्वकर्मविनिर्मुक्तं, सर्वलोकैकभास्करम् / सर्वामरनरैर्वन्द्यं, वन्दे वीरं जिनेश्वरम् अन्यानपि नमस्यामि, श्रीमतस्तीर्थनायकान् / . सिद्धांश्च सर्वसूरीश्च, वाचकांश्च मुनींस्तथा // 2 // 84