________________ आत्मानं त्वं हंस्यघो स्वेष्टसिद्धौ भावी घातः कर्मणोऽतस्तदैव / उसं बीजं येन पुंसा हि यादृग् नूनं लूनं तेन कालेन तादृग् // 11 // आत्मा संसृतिजातियोनिषु गतः स्वजातिधर्मश्रितः, सर्वोऽप्येव जिजीविषुर्भवति वै नो मर्तुकामः क्वचित् / अत्राऽर्हन् प्रतिभूर्यदा न मनुषे पृच्छ स्वमेव त्वकं, हस्तस्थस्य हि कङ्कणस्य वद किं यद्दर्पणालोकनम् // 12 // आप्तैर्जुष्टं दयाख्यं भविजनहृदयो| सदुप्तं हि बीजं, सम्यक्त्वाम्भःप्रसेकात् तत इह समभूत् पत्रितोयः सुसेव्यः / धर्मो गीर्वाणवृक्षत्रिभुवनजनताभीप्सितार्थप्रदाता, शाखा यस्याभिदीर्घा वितरणसुतप:शीलभावाभिधानाः // 13 // इह जगज्जनतावशकारकं शृणु सखे ! कथयामि तवौषधम् / विनयमेकमनल्पगुणं भजे: सकलदोषदवानलसन्निभम् // 14 // इष्टार्थान् विनयस्तनोति हि यथा-योग्यं सदार्थाथिषु, प्रीतिस्फीतिकरः सदोन्नतिधरः कामार्थिनां कामदः / त्रैवर्यं फलवत्करोति नृभवे धर्मार्थिनां धर्मदः सत्स्थानेषु नियोजितः पुनरसौ मोक्षार्थिनां मोक्षदः // 15 // ईद्रुिच्छेदपशुर्मदकुलकरटित्रासने पञ्चवक्त्रो, दुर्ध्यानध्वान्तसूर्यः कलहकलुषताशैलसंघातवज्रम् / अन्तः संशुद्धिहेतुः प्रबलतरकषायाभ्रवृन्दाशुगाभः, / सेव्यः सद्भिः सदाऽसौ विनय इति गुणग्रामसंपन्निधानम् // 16 // ईप्सुर्मोक्षमनल्पसौख्यसदनं यः स्यात् स चारित्रभाक्, चारित्रं न भवेदृतेऽत्र विमलं सद्दर्शनादेव हि / सद्दष्टेर्वरकारणं च गदितं सज्ज्ञानमाप्तैर्जनै स्तल्लभ्यं सुगुरोर्गुरुविनयतस्तदायक: स्यात् खलु // 17 // 81