SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ // 22 // // 23 // // 24 // इत्यादृत्य कृतज्ञतां सुमतिभिर्दानेश्वरैरन्वहं, युक्तं यद्विदुषामुपासनकृते श्री:कर्मकारीकृता विश्वाश्वासकरो घनोऽपि तडिता गोधां मुधा बाधते, दत्तेऽर्कः कुमुदाय न श्रियमहो पद्माय नेन्दुर्द्विषे / क्षुद्राङ्गाय जनाय नो वितरति प्रायः फलं पादपो, दाता सत्पुरुषः परं परहिते बद्धप्रयत्नः समम् तर्कव्याकरणादिशास्त्रनिवहस्याचार्यवृन्दारकैधर्मार्थं धनिभिर्विशालमतिभिर्भोज्यादिसद्वस्तुनः / तल्लाभेन तदंर्थिभिः प्रमुदितैः सम्यक् तदीयस्तुतेस्तन्निन्दोत्थितपातकस्य तु खलैः सत्रं कृतं स्पर्द्धया अर्हच्चक्रभृतां सुरेन्द्रनिधयः षट्खण्डराज्यं वशे, सौरीणामपि तत्तदर्थनिचयाः कर्णस्य सौरो वरः / जीमूतस्य कराग्रगः सुरतरुर्देवो विशालापते र्दानं तैःसुकरं कलौ कृशधनान् सर्वस्वदातॄन् स्तुमः युद्धाहारकरप्रपीडनजपन्यासाक्षरस्थापना स्थैर्यारोपकरोऽसि दैवतशतावासः सुपर्वाऽपभीः / तद् धर्मार्थिगलाईने परवधूस्पर्शे परार्थग्रहे, घाते च प्रगुणो जिनार्चनदयादानेषु पाणे ! स्फुर पीठं सत्पुरुषस्य दक्षिणकरः प्राचीनपुण्योदयो, मन्त्री तत्र महाश्रियं हिमवतः पद्मादवातीतरत् / न्यासैनमयैर्विशेषसफलीकारं च तत्र व्यधाद्, जातं कामिकतीर्थमित्यत इतस्तद्यात्रिकै: सेव्यते अङ्ग्री तीर्थपथाग्रगौ सुकृतिनौ दारिद्र्यसर्वंकषौ, पाणी धन्यतमौ जगत्प्रियवचाः कण्ठो भुजौ धूधुरौ / // 25 // // 26 // // 27 //
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy