________________ // 3 // // 4 // // 5 // किं वस्त्रत्यजनेन भो मुनिरसावेतावता जायते, क्ष्वेडेन च्युतपन्नगो गतविषः किं जातवान् भूतले / मूलं किं तपसः क्षमेन्द्रियजयः सत्यं सदाचारतारागादींश्च बिभर्ति चेन्न स यतिर्लिङ्गी भवेत्केवलम् किं दीक्षाग्रहणेन भो यदि धनाकाङ्क्षा भवेच्चेतसि, किं गार्हस्थमनेनवेषधरणेनासुन्दरं मन्यसे / द्रव्योपार्जनचित्तमेव कथयत्यभ्यन्तरस्थाङ्गजम्, नो चेदर्थपरिग्रहग्रहमतिभिक्षोर्न संपद्यते योषापण्डकगोविवर्जितपदे संतिष्ठ भिक्षो ! सदा, भुक्ताहारमकारितं परगृहे लब्धं यथासंभवम् / षट्धावश्यकसत्क्रियासु निरतो धर्मादिरागं वहन्, सार्धं योगिभिरात्मपावनपरै रत्नत्रयालङ्कृतैः दुर्गन्धं वदनं वपुर्मलगृहं भिक्षाटनाद्भोजनम्, . शय्या स्थण्डिलभूमिषु प्रतिदिनं कट्यां न ते कर्पटम् / मुण्डं मुण्डितमर्द्धदग्धशबवत्त्वं दृश्यसे भो जनैः, साधोऽद्याप्यबलाजनस्य भवतो गोष्ठी कथं रोचते अङ्गं शोणितशुक्रसंभवमिदं मेदोस्थिमज्जाकुलम्, बाह्ये माक्षिकपत्रसन्निभमही चर्मावृत्तं सर्वतः / नो चेत्काकवृकादिभिर्वपुरहो जायेत भक्ष्यं ध्रुवम्, दृष्ट्वाद्यापि शरीरसद्मनि कथं निर्वेदना नास्ति ते स्त्रीणां भावविलासविभ्रमगतिं दृष्ट्वानुरागं मनाक्, मागास्त्वं विषवृक्षपक्वफलवत्सुस्वादवन्त्यस्तदा // ईषत्सेवनमात्रतोऽपि मरणं पुंसां प्रयच्छन्ति भो, तस्मात् दृष्टिविषाहिवत्परिहर त्वं दूरतोऽमृत्यवे // 6 // // 7 // // 8 //