________________ // 4 // // 6 // दैवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्री क्वचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः / लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत्तत्क्वचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्य च / स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न राधाया वदनादधः क्रमवशाच्चकाणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः / तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न दृष्ट्वा कोऽपि हि कच्छपो हुदमुखे शेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् / शेवाले भिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा,म्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तद्वयम् / सा शम्या प्रविशेधुगस्य विवरे तस्य स्वयं क्वापि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न चूर्णीकृत्य पराक्रमान् मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिका समीरवशतः क्षिप्त्वा रजो दिक्षु चेत् / // 7 // // 8 // // 9 //