________________ पुरुषाणां पथि प्रायः प्रमदाः पदबन्धनम् / एतत्सक्तो जनो मुक्तिमपि गेहाङ्गणीयति // 6 / 171 // नृणामाजीविकार्थं हि कामिन्यः क्लेशकारणम् / हरतीयं तु तां चिन्तां बाह्यवृत्त्याप्युरीकृता // 6172 // प्रायो युवैव रामाणां रमणः स्यान्मनोरमः / एषा तु जरसि प्रीतिं धत्ते प्रत्युत साधुषु // 6173 // लब्धयो बीजबुद्ध्याद्या अणिमाद्यास्तु सिद्धयः / अस्या एव प्रसादेन प्रादुःष्यन्ति स्वयं नृणाम् // 6174 // दोषा अपि गुणायन्ते ह्येतया समवेतया / मुक्ता मुक्तावलौ काचमणिर्मस्कतायते // 6175 // कार्यं क्षुत्प्रभवं कदनमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले / एतान्येव गृहे वहन्त्यवनति तान्युन्नति संयमे,. दोषाश्चापि गुणीभवन्ति हि नृणां योग्ये पदे योजिताः // 6 / 176 // विना स्नानं विशुद्धाङ्गी विना भूषां मनोरमा / विनाऽऽहारं बलवती सगुप्ता वसनं विना // 6177 // विनैकान्तं कृतश्लेषा सुखदा मोहनं विना / विना यानं सहचरी प्रीतिभूः प्रणयं विना // 6178 // न देवे न च देवेन्द्रे न चोपेन्द्रेऽपि कामुकी / इयं गुणाग्रहा शुद्धाशय एवानुरंज्यति // 6179 // तंदेषा शेषयोषिद्भ्यो लक्षणैः स्वैविलक्षणा / न लोकोत्तरवृत्तेन विना संबन्धमर्हति // 6 / 180 // अनया प्राक् प्रतिज्ञातमिति कामयतां स माम् / राधावेधं विधातास्येनाग्निज्वालां पिबंश्च यः // 6181 // 261