________________ // 5 / 90 // // 5 / 91 // // 5 / 92 // // 5 / 93 // // 5 / 94 // // 5 / 95 // क्वापि श्रुतानुयोगश्च क्वापि सद्गुरुदेशना / क्वचित्स्वाध्यायनिर्घोषः स्मारणा वारणा क्वचित् एवं देव ! पुरे तत्राखिले कोलाहलाकुले / अविद्यायाः पुरस्ते च क्वापि नामापि न श्रुतम् भूयान् भवत्पुरस्येवाभोगस्तस्य न विद्यते / पुरन्दरपुरस्येव शोभा पुनरनीदृशी स्त्यानर्द्धिनिद्रया सुप्ता अनन्ता अत्र जन्तवः / अस्वप्न इव न स्वप्नक् तत्र लोकः सचेतनः कार्ये स्वल्पेऽपि लोकोत्र प्रायः कलिकुतूहली / कलेर्नामापि नो तत्र शुश्रुवे कृतवन्मया बद्धरुद्धहताक्रुष्टमुष्टप्राया जना इह / बध्यते कोपि केनापि तत्र युग्मिभुवीव न क्रन्दन् रुदन् वदन् दीनं दुःखी लोकोऽत्र दृश्यते / धयन्निव सुधां तत्र जनः सर्वः समाधिभाक् राजात्र सर्वमादित्सुर्लोकः किञ्चिन्न दित्सति / तत्र राज्ञः प्रजानां च सर्वेषामेकचित्तता विभवं वैभवं क्लेशेनोपाय॑ सुखकाङ्क्षिणः / / अक्लेशाः प्रसुखाः पौरान् स्वांस्तत्रत्या हसन्त्यलम् धनं धरान्तर्निहितं जनैरत्र विनश्यति / . विहारव्याजतो व्यक्तमपि तत्र न याति तत् कष्टं ये पालिताः पुत्रास्तेपि पित्रोरिह द्विषः / विदेश्या अपि संप्राप्तास्तत्र सोदरतां गताः उपक्रमे कृतेप्यत्र लाभः संशयगोचरः / लाभः सुनिश्चितस्तत्रोपक्रान्तं चेन्मनागपि 221 // 5 / 96 // // 5/97 // // 5 / 98 // // 5 / 99 // // 5 / 100 // // 5 / 101 //