________________ // 4 // पू.आ.श्रीरत्नसिंहसूरिविरचिता ॥आत्मतत्त्वचिन्ताभावनाचूलिका // कल्याणशस्यपाथोदं, दुरितध्वान्तभास्करम् / श्रीमत्पार्श्वप्रभुं नत्त्वा, किञ्चिज्जीवस्य दिश्यते // 1 // नाहं वक्ता कविनॆव, सतां नाक्षेपकः क्वचित् / / अपूर्वं नैव भाषिष्ये, श्रव्यं किञ्चित्तथाऽपि मे * // 2 // व्युत्पत्तेर्भाजनं काव्यं, रसप्राणस्य मन्दिरम् / वक्रोक्तेः परमं धाम, वैदा लास्यमण्डपः // 3 // शब्दार्थयोः परो गुम्फः प्रसत्तेस्तु सुधारसः / गुरोस्तुल्येन केनाऽपि, दृभ्यते लीलया स्फुटम् सर्वमेतद् वृथा मन्ये, तत्त्वबुद्ध्या विवेचयन् / यतः कर्तुं भवोच्छेदं, चेतश्चेन्न प्रगल्भते' // .5 // संसारानित्यता धन्य !, त्वया स्वतोऽन्यतोऽपि वा / दृश्यते ज्ञायते भूयः, श्रूयते चानुभूयते // 6 // भोगदृष्टौ कृतध्यानैरसंपूर्णमनोरथैः / जलबुबुदसादृश्य, प्राप्य कैः कैर्न गम्यते ? जैनधर्मगुणोपेतां, सामग्री प्राप्य निर्मलाम् / धर्मोद्यमस्तथा कार्यः, प्रमादो न यथा भवेत् भावितात्मा क्षणं भूत्वा, स्थित्वैकान्ते समाहितः / नाशावंशे दृशौ धृत्वा, भावयार्थं मुहुर्मुहुः // 9 // आयातोऽस्मि कुतः स्थानाद् गन्तव्यं क्व पुनर्मया / सुखदुःखविधौ हेतुः, को वा तत्र भविष्यति ? // 10 // पुण्यं पापमिहोपात्तं, ध्रुवं परत्र भुज्यते / इति मत्वा महाभाग !, प्रमादो नैव युज्यते // 7 // // 8 // 140.