________________ मूलं धर्मद्रुमस्य धुपतिनरपति-श्रीलताकल्पकन्दः, सौदर्याह्वानविद्या निखिलसुखनिधि-वश्यतायोगचूर्णः। .. सिद्धाज्ञामन्त्रयन्त्रा-धिगममणिमहा-रोहणाद्रिःसमस्तं, [सार्थं प्रत्यर्थितन्त्रं त्रिजगति विनयः किं न कि साधु धत्ते ? // 37 // संसारार्णवनौविपद्वनदवः कोपाग्निपाथोनिधिमिथ्यावासविसारिवारिदमरुन्मोहान्धकारांशुमान् / तीव्रव्याधिलताशितासिरखिलान्तस्तापसर्पत्सुधासारः पुस्तकलेखनं भुवि नृणां सज्ज्ञानदानप्रपा // 38 // मिथ्यात्वोदन्वदौर्वे व्यसनशतमहा-श्वापदे शोकशङ्काऽऽतङ्काद्या एव ग[व]र्ते मृतिजननजरा-ऽपारविस्तारिवारि। ... आधिव्याधिप्रबन्धोद्धरतिमिमकरे घोरसंसारसिन्धौ, पुंसां पोतायमानं ददति कृतधियः पुस्तकज्ञानदानम् // 39 // शिक्षा भव्यनृणां गणाय मयका-ऽनर्थप्रदैनस्तर, दग्धुं वह्निरभाणि येयमनया वर्तेत योऽमत्सरः / नम्यं चक्रभृतां जिनत्वमपि स-ल्लब्धार्थपादःपरं, रन्ताऽसौ शिवसुन्दरीस्तनतटे रुन्द्रे नरः सादरम् . // 40 // 110