________________ अन्तर्लब्धप्रवेशैः करनिकरभरैर्भशयन्नन्धकारप्राग्भारं देवमूर्ति बहिरपि नमतां दर्शयन् सप्रकाशम् / उत्तुङ्गे संमुखायाः प्रतिनिदधदयं यत्र रत्नाश्मभित्तेः सौवर्णस्यांशुमाली कलयति करणिं प्रत्यहं दर्पणस्य : // 22 // वैदूर्याश्मप्रणालीमुखमकरतटैर्घाणपात्रैकमित्रं यस्मानिर्गच्छदच्छं स्नपनविधिभवं केतकीपुष्पपाथः / दिग्लोलानीलभासो बहुलपरिमलाकृष्टभृङ्गप्रसङ्गभ्रान्त्या हस्तैः किरन्त्यः पुरहरिणदृशो मौलिभिः संस्पृशन्ति // 23 // प्रत्यारावैः सकेकाश्चलचमरमहोमांसलं पृष्ठपीठे बिभ्राणाश्चित्रवर्णं विविधमणिभवं कान्तिवीचीकलापम् / नृत्यन्तो द्वारवेदीतटभुवि कृतकं बहिणः प्रेक्षकाणां नेत्राण्याक्षिप्य नित्यं विदधति सरुषं यत्र शैलूषलोकम् // 24 // जालीरन्ध्रप्रविष्टद्युतिचयखचिताच्चन्द्रकान्ताश्मक्लृप्तादूर्ध्वस्थादुग्धमुग्धं जिनशिरसि पयः पातयंश्छत्रकुम्भात् कुर्वन्नक्षत्रबिम्बैरजिरमणिभुवां दिव्यपुष्पोपहारं यत्र व्योमस्थ एव स्नपनविधिमहो श्वेतरोचिः करोति // 25 // यस्मिन् वितानगतरूपकबिम्बभाजः स्तम्भानुपेत्य विकटस्फटिकप्रकृष्टान् दौवारिकभ्रमवशादनुकूलयन्ति मध्यप्रवेशरभसैनगरस्य नार्यः // 26 // नीलाश्मभित्तिवलयप्रतिबिम्बितस्य पार्श्व प्रभोर्विहितकेतकशेखरस्य / शेषाप्रसूनकलनाय करं क्षिपन्त्यो ग्राम्या दिशन्ति किल यत्र न कस्य हास्यम् यत्रावासमुपेयुषो भगवतः पार्श्वस्य पुण्याद्भुतप्राप्यैः स्नात्रजलोमिभिः सकृदपि स्नाताः कुरङ्गीदृशः / SO // 27 //