________________ बहिर्मधुरिमोज्ज्वलैर्घनकषायपीनोदरैः प्रतारयसि यज्जनं कनककान्तिभिस्त्वं फलैः। . समागतमनुत्तरोत्तररसोपलम्भाशया . चरित्रमधमं ततस्तव रसालकारस्कर ! . // 10 // सति घनेऽप्यशनेऽथ यथाक्षुधं यदपरेषु कुटुम्बिषु कुर्कुर। अधृतिमातनुषे भवतस्तदा बुधजनैः करटोऽप्यथ वर्ण्यते // 101 // स्पर्धयन् महिष ! दन्तिना समं स्वेच्छया विचरणोच्छलबलः / स्वामिशीतलदृशैव जीवसि दुःसहस्तवं यतः कराहतिः . // 102 // रङ्गत्तरङ्गनिकरैर्विपुलोच्छलद्भिः किं भापयन् जलनिधे ! ननु गर्जसि त्वम् / अद्यापि कोऽपि पथिकः किल यत्पिपासुः कि तोषितोऽस्ति भवता जलबिन्दुनापि // 103 // न दत्तं ग्रीष्मावपि च तव शीतर्तुसमये पयस्तृष्णाभोगाकुलितमनसश्चापि निभृतम्। . कृतं तद्याञ्चाभिर्बहुभिरथ बप्पीह जलदो- . ऽधुनायं तद्दाताखिलजगति तत्तेऽपि सुलभम् // 104 // यन्नाम्ना च हितोपदेशवचनं ते तावदिच्छङ्कराः किं स्युः क्वाप्यथ चेद्भवन्ति च तथा शिक्षासहास्ते कुतः / स्वार्थव्यग्रधिया परन्तु सुधिया तत्संज्ञया ज्ञापनम् तेनाप्रीतिकरं क्षमन्तु सुजनाः सर्वंसहाख्यातिनः // 105 // 250