________________ सुराः कुर्वन्ति सान्निध्यं सङ्कटे शीलशालिनाम् / जाता सुदर्शनस्याहो शूलिकापि सुखासनम् / // 48 // इष्टप्राप्तौ महेच्छानां चेदिच्छैव विलम्बते / अवन्तीसुकुमालस्य को लग्नः स्वर्गतौ क्षणः // 49 // सर्वासामपि शक्तीनां तपःशक्तिविशिष्यते / लङ्केन्द्रस्यास्खलद् यानमूर्ध्वं वालिमुनेर्गतम् // 50 // यस्तारुण्येऽपि दुःसाध्यः सोऽर्थो बाल्येऽतिचित्रकृत् / अन्त्यस्य देवकीसूनोः सत्त्वे को नाधुनच्छिरः // 51 // अप्रकम्प्या स्थितिख़ततत्त्वामा(नां) त्रिदशैरपि / यक्ष एव विलक्षोऽभूत् न विलक्षस्त्रिविक्रमः // 52 // गुणिनां गौरवं कार्यं वयोपेक्षा न युज्यते / वज्रं किं वाचनाचार्यं न बाल्येऽप्यकरोद् गुरुः // 53 // गौरवाय गुणा एव वयस्तत्र न कारणम् / वज्रः शावोऽपि पूज्योऽभूत् नैव वृद्धोऽपि तत्पिता // 54 // श्रेयः सर्वस्वहा क्रोधः कृतः प्रान्ते. विशेषतः / निरार्यापि(निर्याम्यापि) परान् दुष्टं जन्माप स्कन्दकः स्वयम् 55 पूर्वं किं न कृतं पुण्यं मा रोदीर्दुर्गतौ गतः / दुःखान्मोक्षः शुचा चेत् स्यात् ही शुशोच शशी न किम्॥ 56 / / दुष्कृतानुपदं श्रेयः कृतं सद्योऽघमर्षणम् / ' जगामानशनात् स्वर्गं वीरं दृष्ट्वापि कौशिकः // 57 // स्वाङ्गकष्टं विषह्यापि विधत्तेऽथ हितं महान् / अहिदंशव्यथां सेहे वीरस्तद्बोधनोद्यतः // 58 // वल्लभाविप्रलम्भेण धीरोऽपि विधुरो भवेत् / / श्रीरामः किं न बभ्राम शंसन् सीतां लता अपि // 59 // 209