________________ // 60 // // 61 // // 62 // // 63 // ... // 64 // // 65 // बहिस्तुष्यति मूढात्मा, पिहितज्योतिरन्तरे। तुष्यत्यन्तः प्रबुद्धात्मा, बहिावृत्तकौतुकः न जानन्ति शरीराणि, सुखदुःखान्यबुद्धयः / निग्रहानुग्रहधियं, तथाप्यत्रैव कुर्वते __ स्वबुद्धया यावद् गृह्णीयात्, कायवाक्चेतसां त्रयम् / संसारस्तावदेतेषां, भेदाभ्यासे तु निवृत्तिः घने वस्त्रे यथात्मानं, न घनं मन्यते तथा। घने स्वदेहेप्यात्मानं न घनं मन्यते बुधः जीर्णे वस्त्रे यथात्मानं, न जीर्ण मन्यते तथा। . जीर्णे स्वदेहेप्यात्मानं, न जीर्ण मन्यते बुधः नष्टे वस्त्रे यथात्मानं, न नष्टं मन्यते तथा। नष्टे स्वदेहेऽप्यात्मानं, न नष्टं मन्यते बुधः रक्ते वस्त्रे यथात्मानं, न रक्तं मन्यते तथा / रक्ते स्वदेहेऽप्यात्मानं, न रक्तं मन्यते बुधः यस्य सस्पन्दमाभाति, निस्पन्देन समं जगत् / अप्रज्ञमक्रियाभोगं, स कामं याति नेतरः शरीरकञ्चुकेनात्मा, संवृतज्ञानविग्रहः / नात्मानं बुध्यते, तस्माद् भ्रमत्यतिचिरं भवे प्रविशद् गलतां व्यूहे, देहेऽणूनां समाकृतौ / स्थितिभ्रान्त्या प्रपद्यते, तमात्मानमबुद्धयः गौर: स्थूलः कृशा वाहमित्यङ्गेनाविशेषयन् / आत्मानं धारयेन्नित्यं, केवलज्ञप्तिविग्रहम् . मुक्तिरेकान्तिकी तस्य, चित्ते यस्याचला धृतिः। तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः / // 67 // // 68 // // 69 // // 70 // // 71 // 154