________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // युञ्जीत मनसात्मानं, वाक्कायाभ्यां वियोजयेत् / मनसा व्यवहारं तु, त्यजेद्वाक्काययोजितम् जगद्देहात्मदृष्टीनां, विश्वास्यं रम्यमेव च / स्वात्मन्येवात्मदृष्टीनां क्व विश्वासः क्व वा रतिः आत्मज्ञानात्परं कार्यं, न बुद्धौ धारयेच्चिरम् / कुर्यादर्थवशात्किंविद्वाक्कायाभ्यामतत्परः यत्पश्यामीन्द्रियैस्तन्मे, नास्ति यनियतेन्द्रियः / अन्तः पश्यामि सानन्दं, तदस्य जयोतिरुत्तमम् सुखमारब्धयोगस्य, बहिर्दु:खमथात्मनि / बहिरेवासुखं सौख्य-मध्यात्म भावितात्मनः तब्रूयात्तत्परान्पृच्छे-तदिच्छेत्तत्परो भवेत् / येनाविद्यामयं रूपं, त्यक्त्वा विद्याभयं व्रजेत् शरीरे वाचि चात्मानं, संधत्ते वाक्शरीरयोः / भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं, पृथगेषां निबुध्यते न तदस्तीन्द्रियार्थेषु, यत्क्षेमङ्करमात्मनः / तथापि रमते बाल-स्तत्रैवाज्ञानभावनात् चिरं प्रसुप्तास्तमसि, मूढात्मानः कुयोनिषु / अनात्मीयात्मभूतेषु, ममाहमिति जाग्रति पश्येन्निरन्तरं देहमात्मनोऽनात्मचेतसा। .. अपरात्मधियाऽन्येषामात्मतत्वे व्यवस्थितः / अज्ञापितं न जानन्ति, यथा मां ज्ञापितं तथा / मूढात्मानस्ततस्तेषां, वृथा मे ज्ञापनाश्रमः यद्बोधयितुमिच्छामि तन्नाहं यदहं पुनः / , ग्राह्यं तदपि नान्यस्य, तत्किमन्यस्य बोधये // 54 // // 55 // // 56 // // 57 // // 58 // // 59 // 153