________________ प्रातिहार्यमियं धत्ते, निवृत्तिनिर्वृतिश्रियः / य एव रोचतेऽमुष्यै, तां स एव हि पश्यति // 101 // अहो ! वणिक्कला कापि, मनसोऽस्य महीयसी। निवृत्तितुलया येन, तुलितं दीयते सुखम् साम्यदिव्यौषधिस्थेम-महिम्ना निहतक्रियम् / कल्याणमयतां धत्ते, मनो हि बहु पारदम् // 103 // भूयांसि यानि शास्त्राणि यानि सन्ति महात्मनाम् / इदं साम्यशतं किञ्चित्, तेषामञ्चलमञ्चतु // 104 // क्लेशावेशमपास्य निर्भरतरं ध्यातोऽपि यश्चेतसा, सत्कल्याणमयत्वमाशु तनुते योगीन्द्रमुद्राभृताम् / सोऽयं सिद्धरसः स्फुटं समरसो भावो मया व्याकृतः, . श्रीमानद्भुतवैभवः सुमनसामानन्दजीवातवे // 105 // श्रीमच्चन्द्रकुलाम्बुजैकतरणेः सत्तर्कविद्याटवी, सिंहस्याभयदेवसूरिसुगुरोरध्यात्मसंविज्जुषः / शिष्यांशेन किमंप्यकारि विजयप्राज्येन सिंहेन यद्नव्यं साम्यशतं तदस्तु सुहदामुज्जागरुकं हृदि // 106 // 148