________________ न श्रेणिकः किल बभूव बहुश्रुतर्द्धिः, प्रज्ञप्तिभाग् न न च वाचकनामधेयः। सम्यक्त्वतः स तु भविष्यति तीर्थनाथः, सम्यक्त्वमेव तदिहावगमात् प्रधानम् // 85 // भ्रष्टेन संयमपदादवलम्बनीयं, सम्यक्त्वमेव दृढमत्र कृतप्रसङ्गाः / चारित्रलिङ्गवियुजोऽपि शिवं व्रजन्ति,तद्वर्जितास्तु न कदाचिदिति प्रसिद्धिः ज्ञानी सुदृष्टिरपि कोऽपि तपो व्यपोह्य, दुष्कर्ममर्मदलने न कदापि शक्तः एतन्निकाचितमपि प्रणिहन्ति कर्मेत्यभ्यर्हितं भवति निर्वृतिसाधनेषु // 87 // सम्यक्क्रिया व्यभिचरेन फलं विशेषो, हेत्वागतो न परतोऽविनिगम्यभावात् न द्रव्यभावविधया बहिरन्तरङ्गभावाच्च कोऽपि भजनामनुपोह्य भेदः आकर्षणादिनियतास्ति जपक्रियैव, पत्युः प्रदर्शयति सा न मुखं परस्य / वैकल्पिकी भवतु कारणता च बाधे, द्वारित्वमप्युभयतो मुखमेव विद्मः सम्यक्त्वशोधकतयाधिकतामुपैतु, ज्ञानं ततो न चरणं तु विना फलाय / ज्ञानार्थवादसदृशाश्चरणार्थवादाः, श्रूयन्त एव बहुधा समये ततः किम्।।९०॥ शास्त्राण्यधीत्य बहवोऽत्र भवन्ति मूर्खा, यस्तु क्रियैकनिरतः पुरुषः स विद्वान् / सञ्चिन्त्यतां निभृतमौषधमातुरं किं, विज्ञातमेव वितनोत्यपरोगजालम् // 91 // ज्ञानं स्वगोचरनिबद्धमत: फलाप्ति:कान्तिकी चरणसंवलितात् तथा सा। ज्ञातानि चात्र तरणोत्कनटीपथज्ञाश्चेष्टान्वितास्तदितरे च निदर्शितानि९२ मुक्त्वा नृपो रजतकाञ्चनरत्नखानी-र्लाहाकरं प्रियसुताय यथा ददाति / तद्वद्गुरुः सुमुनये चरणानुयोगं, शेषत्रयं गुणतयेत्यधिका क्रियैव।।९३ प्रज्ञापनीयशमिनो गुरुपारतन्त्र्यं, ज्ञानस्वभावकलनस्य तथोपपत्तेः / ध्यान्ध्यं परं चरणचारिमशालिनो हि, शुद्धिः समग्रनयसङ्कलनावदाता९४ 20.