________________ आद्ये क्षणेऽभ्यवहतिः किल कार्मणेन, . मिश्रात् ततो न तनुसर्गमिति त्वमोघम् // 75 // वीर्यं त्वया सकरणं गदितं किलात्म-न्यालम्बनग्रहणसत्परिणामशालि। तेनास्य सक्रियतया निखिलोपपत्तिस्त्वर्द्धषिणामवितों न तु बन्धाक्षा एकान्तनित्यसमये च तथेतरत्र, स्वेच्छावशेन बहवो निपतन्ति दोषाः / तस्माद् यथेश भजनोर्जितचित्पवित्रमात्मानमात्थ न तथा वितथावकाशः : एतादृगात्ममननं विनिहन्ति मिथ्याज्ञानं सवासनमतो न तदुत्थबन्धः। कर्मान्तरक्षयकरं तु परं चरित्रं निर्बन्धमात्थ जिन ! साधु निरुद्धयोगम्।।७८१ ज्ञानं न केवलमशेषमुदीर्य भोगं, कर्मक्षयक्षममबोद्धृदशाप्रसङ्गात् / वैजात्यमेव किल नाशकनाश्यतादौ, तन्त्रं नयान्तरवशादनुपक्षयश्च 79 ज्ञानं क्रियेव विरुणद्धि ससंवरांशं, कर्म क्षिणोति च तपोंऽशमनुप्रविश्य भोगः प्रदेशविषयो नियतो विपाके, भाज्यत्वमित्यनघ ! ते वचनं प्रमाणम् ज्ञानं प्रधानमिह न क्रियया फलाप्तिः, शुक्तावुदीक्ष्यत इयं रजतभ्रमाद्यत् आकर्षणादि कुरुते किल मन्त्रबोधो, होणेव दर्शयति तत्र न च क्रियास्यम् पश्यन्ति किं न कृतिनो भरतप्रसन्नचन्द्रादिषूभयविधं व्यभिचारदोषम् / द्वारीभवन्त्यपि च सा न कथञ्चिदुच्चैर्ज्ञानं प्रधानमिति सङ्गरभङ्गहेतुः सम्यक्त्वमप्यनवगाढमृते किलैतदभ्यासतस्तु समयस्य सुधावगाढम् / ज्ञानं हि शोधकममुष्य यथाञ्जनं स्यादक्ष्णो यथा च पयस: कतकस्य चूर्णम् / / 83 // आसक्तिमांश्च चरणे करणेऽपि नित्यं, न स्वान्यशासनविभक्तिविशारदो यः / तत्सारशून्यहृदयः स बुधैरभाणि, ज्ञानं तदेकमभिनन्धमतः किमन्यैः // 84 // 26 // 84 //