________________ इति नुतः श्रीविजयप्रभो भक्तितस्तर्कयुक्त्या मया गच्छनेता। . श्रीयशोविजयसम्पत्करः कृतधियामस्तु विघ्नापहः शत्रुजेता // 7 // . // श्रीविजयप्रभसूरिक्षामणकविज्ञप्तिः // स्वस्ति श्रियां चारुकुमुद्वतीनां, विधुः समुल्लासविधौ जिनेन्द्रः / / श्रीअश्वसेनक्षितिपालनंशस्वर्गाचलस्वर्गतरुः श्रिये वः // 11 // स्वस्ति श्रियं यच्छतु भक्तिभाजामुद्दामकामद्रुम-सामयोनिः / धर्मद्रुमारामनवाम्बुवाहः, सुत्रामसेव्यः प्रभुपार्श्वदेवः // 12 // स्वस्तिं श्रियामाश्रयमाश्रयामः, स्वनाममन्त्रोद्धतभक्तकष्टम् / सुस्पष्टनिष्टङ्कितविष्टपान्तविवर्तिभावं जिनमाश्वसेनिम् // 13 // स्वस्ति श्रियां गेहमुदारदेहं, मरुन्महेलाभिरखण्डितहम् / अपासितस्नेहमहेयभावं, पार्वं महेशं व्रतिनां श्रयेऽहम् // 14 // स्वस्ति श्रिये स प्रभुपार्श्वनाथः, कृतप्रसर्पदुरितप्रमाथः / .. यन्नाममन्त्रस्मरणप्रभावात्, प्रयान्ति सद्यो विलयं भयानि॥ 15 // प्रसीदतु प्रत्नसमीहितार्थः, पार्श्वः सतां ध्वस्तसमस्तपापः / नीरन्ध्रधाराधरनीरधाराविधौतविन्ध्याचलचारुकान्तिः // 16 // गभस्तिवद् ध्वस्ततमःप्रतानः, कल्पद्रुवत् कामितदानदक्षः। अमुद्रगाम्भीर्यनिधानमुद्रः, समुद्रवत्पार्श्वजिनोऽवताद् वः॥ 17 // विद्येव मुद्राऽजनि यस्य चित्रा, मुद्रेव कान्ति: परमा पवित्रा / दिग्व्यापिनी कान्तिरिवोरुकीर्ति, पार्यो जगत् सोऽवतु पुण्यमूर्तिः 156 सेवां मुखस्याब्जधिया विधातुं, समागतं हंसयुवद्वयं किमु / " यस्यालसच्चामर-युग्ममुच्चैः, पार्श्वः स वः पुण्यनिधिः पुनातु / / स्तवीमि तं पार्श्वजिनं यदीय-पादाग्रजांगूनखरत्नदीपम् / स्थातुं रजन्यामपि नावकाशं, तम:समूहो लभते कदापि 1 / 10 // 282