________________ // 62 // // 63 // द्विजराज इवैतदाननात्, सुषमाद्वैतरुचोऽध्यगीषत / उचितं विधुपङ्कजादयस्त्रिजगल्लोचनशोकमाजिनः इदमाननकारिणं करं, विधुना प्रोञ्छति यत्स्म पद्मभूः / इति तत्र रुचीरपप्रथत्, सविशेषोऽपि तदंशशेषजः नयनाम्बुरुहे तदाननाच्चकिते सुप्रथिते ततोऽपि किम् / विधुता विधुता पुरातनी, यदनेनेह कलङ्कपङ्किला अधरे विधुना सुधारसः, श्वसिते सौरभमम्बुजन्मना। निजसारहितं तदानने, किमु सख्यप्रथनाय नाहितम् - - अपूर्णमिदं महाकाव्यम् // 64 // // 65 // ॥श्रीविजयप्रभसूरिस्वाध्यायः // श्रीविजयदेवसूरीशपट्टाम्बरे, जयति विजयप्रभसूरिरर्कः / येन वैशिष्ट्यसिद्धिप्रसङ्गादिना, निजगृहे योग-समवाय-तर्कः॥ 1 // ज्ञानमकं भवद् विश्वकृत् केवलं, दृष्टबाधा तु कर्तरि समाना / इति जगत्कर्तृलोकोत्तरे सङ्गते, सङ्गता यस्य धीः सावधाना 2 ये किलोपोहशक्तिं सुगतसूनवो, नातिशक्तिं च मीमांसका ये / संगिरन्ते गिरं ते यदीयां नयद्वैतपूतां प्रसह्य श्रयन्ते // 3 // कारणं प्रकृतिरङ्गीकृता कापिलैः, क्वापि नैवाऽऽत्मनः काऽपि शक्तिः बन्धमोक्षव्यवस्था तदा दुर्घटेत्यत्र जागर्ति यत्प्रौढशक्तिः // 4 // शाद्विकाः स्फोटसंसाधने तत्परा, ब्रह्मसिद्धौ च वेदान्तनिष्ठाः / सम्मति-प्रोक्तसङ्ग्रहरहस्यान्तरे, यस्य वाचा जितास्ते निविष्टाः 5 ध्रौव्यमुत्पत्तिविध्वंसकिर्मीरितं, द्रव्यपर्यायपरिणतिविशुद्धम् / / विस्रसायोगसङ्घात-भेदाहितं, स्वसमयस्थापितं येन बुद्धम् // 6 // 281