________________ फलार्थिनः श्रीफलवर्द्धिचैत्यं, यत्र श्रयन्तः फलसेविनो यत् / जना नवत्वं प्रथयन्ति यस्य, च्छायाभरभ्राजितया तदुच्चैः // 24 // मात्राधिकस्यापि कृतौ गुणश्चेद्, वर्णाधिकस्याधिकतोचितैव / धातुविधातुर्जगतोऽपि यत्र, मान्धातुरेवेत्यधिकः प्रयत्नः // 25 // आभ्यन्तरं यन्मणिवेश्मवृन्दज्योतिर्मयं ब्रह्म विदन्ति सन्तः / ततो विना वास्तविकस्वरूपं स्वर्जायते यस्य विवर्त एव // 26 / / युद्धे च लक्ष्मीः किल येन वप्रवर्मावृताङ्गेन विलुण्टिता द्योः। इतीव यत्पूर्भयभङ्गलिङ्ग, शक्राख्यया ख्यातिमुपैति तस्याः // 27 // यच्चैत्यवातायनमौक्तिकेषु, स्वकान्तिविद्योतितदिङ्मुखेषु / इन्दिन्दिरौघाः परितो भ्रमन्तो, जपासुमभ्रान्तिभृतः पतन्ति // 28 // यत्रानिशं स्फाटिकजैनसद्मप्रभाप्रभावप्रहतान्धकारे। . मृगीदृशामेव कुचेषु शेते, कस्तूरिका नाम कुहूनिलीय // 29 // सदालिषु प्रीतिभरं दिशन्तो, दानेन संसर्पिकराभिरामाः / स्फुरद्गतिप्रीणितविश्वचित्ता, यंत्र श्रिताः कुम्भिसमत्वमिभ्याः॥३०॥ यत्रापणश्रेणिषु शुभ्रभासो, मुक्ताफलानां प्रकराः स्फुरन्ति। श्रियः परीभोग (वशे) न जाताः, स्वेदोदलेशा इव तद्विभूनाम्॥ 31 // निजश्रियं येन हृतामवेत्य, दुखादियं द्यौःकिमु मूर्च्छितैव। येनोपचीर्णा जिनवेश्मकेतुचेलाञ्चलं प्रेरितशीतवातैः // 32 // यस्मिन् सभास्तारसभासमक्षं प्रासाददण्डोपरि चन्द्रबिम्बम् / जिगीषया द्यां प्रति दीर्घवंशविन्यस्तपत्रश्रियमादधाति // 33 // यद्वेश्मनां च त्रिदिवौकसां च, द्वयोर्विवादो ववृते चिराय / अथानयोर्भङ्गजयौ तु भाव्यौ, विमानताख्या ध्वजधारणाभ्याम्॥ 34 // फणाभिरुच्चैः कपिशीर्षदम्भैर्यत्पाति शेषः किल वप्रवेशः / भोगावली विभ्रमतो नितान्तं, भोगीन्द्रलीलानिभृताद्भुतथि // 35 // 269