________________ पतितं युधि पञ्चसायकं तदतिश्रेष्ठभटं सहेत कः। त्रिभिरेव जगत्त्रयीं जयन् विफलां वेत्ति शरद्वयीं हि यः // 102 // कुटिला हसितेन फेनिला सलिलावर्तविवर्त्तनाभिभृत् / अमुना विहिताङ्गनानदी नरके पातयति प्रमादिनः // 103 // ददती स्वगणे परभ्रमं स्वमतिं स्वैरिषु चात्मवैरिषु / अमुनैव विनिर्मिता सतामपि माया नयने विलुम्पति // 104 // जनसंवननाय कामिनीकनकेत्यक्षरषट्कबीजया / अपराजितयाऽस्य विद्यया स्फुरितं कुत्र न पाठसिद्धया // 105 // विनिपात्य गुरुत्वगह्वरे सुखतृष्णां करिणी प्रदर्शयन् / विपरीतकथासृणिक्षतैर्दमयत्त्येष विवेककुञ्जरम् // 106 // तुरगानुरगारिजिज्जवान् प्रबलानस्य विकल्पसंज्ञकान् / गगनेऽप्यपरिस्खलद्गतीन् समरे प्रेक्ष्य न कः प्रकम्पते // 107 // अजितेन जितं किमप्यहो विजितेऽस्मिन् भुवनत्रयं जिनम् / इति तद्विजयाय संयमक्षितिपालः स्ववशो विधीयताम् // 108 // चतुरङ्गचमूवृतः स हि प्रभवेन्मोहजयाय नापरः / कठिनः शरभं विनाऽस्तु कः शठकण्ठीरवदर्पलोठने // 109 // रदनानिव शक्रदन्तिनचतुरस्तस्य गुणान् क्षमादिकान् / दधते किमु कान्दिशीकतां न समुद्वीक्ष्य कषाययामिकाः // 110 // तनयावनयावतंसितौ जयति द्वावपि मोहभूपतेः। तनुजोऽस्य शमोऽनुपाधिको गरुङ: पन्नगवृश्चिकाविव // 111 / / दमनामभटैः पदे पदे कृतसौराज्यमहेऽस्य मण्डले। विषयाः क्व हरन्तु ते धनं यदपायानि धृतानि गुप्तिषु // 112 // अतिदुःसहतामसंवृते कलयत्वाश्रवभूभृदोजसा। मुखमेव ददाति सम्मुखे न तु सेनाधिकृतेऽस्य संवरे 247