________________ तरसा न महारथस्य किं, विजयन्ते स्म मनोरथान् रथाः / सुकृतैकमुखेक्षिणः फले, सुकृतेनैव पुरस्कृताः स्वयम् // 18 // युधिं यस्य पदातयो भटा, व्यलसन् वर्मपयोदवेष्टिताः / कुलिशाक्षतशौर्यनिर्जरक्षितिभृज्जङ्गमशृङ्गसन्निभाः / // 19 // मदनो निजरूपसम्पदा, विजितो येन यथावपत्रपाम् / भजते स्म स इत्यदृश्यतां, तपमानो[णो]ऽपि निजेन चेतसा // 20 // अजनिष्ट महान् पराभवो, हठतश्छत्रममुञ्चतोऽप्यहो / युधि यद्घनबाणवर्षणे, नृपतेश्छत्रमुचंस्तु नो भयम् // 21 // अयमुद्धतसेनया रयाज्जितषट्खण्डसमग्रमण्डलः / निजभाल-ललामरत्नतामनयच्चक्रिपदं महोर्जितम् // 22 // अथ तस्य रुचाभिमन्त्रितैर्बहुसिद्धौषधिमूलमिश्रितैः। कलसैर्जलसम्भृतैर्मृदा, सविकासैरिव मङ्गलाननैः . // 23 // मुकुटांशुभिरूर्ध्वमुच्छ्रितैर्दिवमुत्कण्ठयितुं समुद्यतैः / बलकम्पितभूतलच्छलादपि संज्ञापितनागनागरैः // 24 // कनकाभरणप्रभाभरैर्विदधानैर्भुवमीक्षणोन्मुखीम् / अभिषेकविधिः प्रचक्रमे, निखिलैादशवार्षिको नृपः // 25 // गजवाजिरथैः पदातिभिः, समभूत् तन्नगरं तदाकुलम् / जगदादिमसर्गसम्मुखं, दरविस्तारिविधेरिवोदरम् // 26 // शयितं किमु शेषदिक्पुरैः, कृतकोलाहलशान्तिसर्वतः / लघु तत्र समागतैर्जनैर्जनसम्मर्दपरिश्रमोज्झितैः // 27 // ध्वजिनी बहुभूभृतां ध्वजैर्ननु मायेव गुणैरभिद्यत। . न तु तेष्वविशेषमान्तरं, किमपि ज्योतिरगाद्विभिन्नताम् // 28 // अतिघट्टनतो महीभृतां बहुकोलाहलगर्जितोर्जितः / च्युतहारमणिव्रजैरभूननु रत्नाकर एव तत्पथः / // 29 // 240