________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // तरलान् युधि वारियाचकानपि कुर्वनहितान् सुधापिबान् / मनुजाधिपतिर्न चिन्तिताधिकद: कैर्मनुजैरचिन्ति यः अभिधावति यस्य चातुरी, विनतायास्तनये महानये / अलभन्त न पन्नगाः पदं, भुवि पाटच्चरपारदारिकाः करवालकरालताधरो, मुखमाधुर्यवशीकृतावनिः / द्विषतां सुहृदां च योऽभवद्, विषपीयूषपयोमहोदधिः अभवत् तपनाशुसंज्वरक्षुच्च भयशोकविह्वला / यदरिप्रमदावियोगिनी, धृतपञ्चाग्नितपोव्रता वने अहरन् रजतादि यद्विषां सदनेषु प्रकटं वनेचराः / न तु गौञ्जगणभ्रमान्महामणिवातायनमौक्तिकस्रजः असुहृत्प्रमदाश्रुवारिभिर्ववृधे यस्य यशोलतोचितम्। यददीप्यत तैर्महोऽनलः, प्रबलस्तत्तु चमत्क्रियास्पदम् अधिकं स्म विदन्ति नारयो, ज्वलनं यत्प्रबलप्रतापतः / दववह्निघने ततो भिया, प्रविशेयुः कथमन्यथा वने - लघुतूलवदिन्दुमण्डलं, यशसो यस्य पुरः प्रतीयते / इति युक्तिमदम्बराङ्गणभ्रमणं तस्य मरुत्प्रचारतः विधुरङ्गति पीनफेनतां, प्रचलद्वारिकणन्ति तारकाः। तरणिस्तरुणोऽपि यद्यशोजलधौ विद्रुमकन्दवृन्दति गलितैर्निजदृग्गलन्तिकासलिलैस्तापवतो वियोगतः / यदविजसुभ्रुवामभूत्, कुचशम्भोः स्नपनं निरन्तरम् यदिभैर्निजदानवारिणा, सतता सिक्तकरैः सुलक्षणैः / क्षितिभृन्महिमासहिष्णुभिर्विधृता किं न निजानुकारिता अमिता वयमत्र सप्त ते, गगनार्द्धादिति संहृतक्रमैः / रविसप्तिजयादुदासितैस्तुरगैर्यस्य दिशो ललधिरे // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // 239