________________ .... // 3 // . // 4 // येषां चेतसि निर्मले शमवतां मोक्षाध्वनो दीपिकाप्रज्ञालाभवतां क्रिया सुरुचिताऽरं भावनाऽऽभोगतः। ते श्रीमज्जिनपुङ्गवा हतभया नित्यं विरक्ताः सुखं प्रज्ञाला भवतां क्रियासुरुचितारम्भावना भोगतः मिथ्यादृष्टिमतं यतो ध्रुवमभूत् प्रध्वस्तदोषात् क्षितावाऽऽचारोचितमानमाऽरयमदम्भावारिताऽपाप ! हे। तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धाय चित्ते निजे वाचा रोचित ! मानमारयमदं भावारितापापहे शत्रूणां घनधैर्यनिर्जितभया त्वां शासनस्वामिनी पातादाऽऽनतमानवा सुरहिता रुच्या सुमुद्राऽऽजिषु। श्रीशान्तिक्रमयुग्मसेवनरता नित्यं हतव्यग्रतापातादानतमा नवासु रहिता रुच्या सुमुद्राजिषु 17 श्रीकुन्थुजिनस्तुतयः स जयति जिनकुन्थुर्लोभसंक्षोभहीनो महति सुरमणीनां वैभवे सन्निधाने। इह भवति विना यं मानसं हन्त केषां महति सुरमणीनां वैभवे सन्निधाने जयति जिनततिः सा विश्वमाधातुमीशाऽमदयतिमहिताऽरं किन्न रीणाऽऽमपाशम् ? / विलसितमपि यस्या हन्त नैव स्म चित्तं मदयति महि तारं किन्नरीणामपाशम् अवतु गदितमाप्तैस्त्वां मतं जन्मसिन्धौ, परमतरणहेतुश्छायया भासमानैः / 208 // 2 //