________________ 6 श्रीपद्मप्रभजिनस्तुतयः पद्मप्रभेश ! तव यस्य रुचिर्मते सद्विश्वासमानसदयापर ! भावि तस्य / नोच्चैःपदं किमु पचेलिमपुण्यसम्पद्, विश्वाऽसमान ! सदयाऽपर ! भावितस्य // 1 // मूर्तिः शमस्य दधती किमु या पटूनि, पुण्यानि काचन सभासु रराज नव्या। सा स्तूयतां भगवतां विततिः स्वभक्त्या, पुण्याऽनिकाचन ! सभासुरराजनव्या . लिप्सुः पदं परिगतैर्विनयेन जैनी वाचंयमैः सततमञ्चतु रोचितार्थाम् / स्याद्वादमुद्रितकुतीर्थनयावतारां वाचं यमैः सततमं चतुरोचितार्थाम्।।३॥ साहाय्यमत्र कुरुषे शिवसाधने याऽपाता मुदा रसमयस्य निरन्तराये ! / गान्धारि! वज्रमुसले जगतीं तवास्याः पातामुदारसमयस्य निरन्तराय।।४। 7 श्रीसुपार्श्वजिनस्तुतयः यदिह जिनसुपार्श्व ! त्वं निरस्ताकृतक्ष्मावनमद ! सुरवाऽधा हृद्यशोभाऽवतारम् / तत उदितमजस्रं कैर्बुधैर्गीयते नावनमदसुरबाधाहृद् यशो भावतारम् जगति शिवसुखं ये कान्तिभिर्भासयन्तोऽदुरितमदरतापध्यानकान्ता:सदाऽऽशाः / जिनवरवृषभास्ते नाशयन्तु प्रवृद्धं, दुरितमदरतापध्यानकान्ताः सदाशाः मुनिततिरपठद् यं वर्जयन्ती हतोद्यत्तमसमहितदात्रासाऽऽधिमानन्दितारम्। // 1 // // 2 // 202