________________ ' || 8 // तदप्यसत्तस्य वेद्योदीरणं व्यापकं न यत् / दर्शनावरणी निद्रा बुभुक्षा मोह एव च . पात्राभावाद्ध्यानविघ्नान्मोहाभावादवृद्धितः / परमौदारिकाङ्गानां ननु नाहारसंभवः // 7 // अङ्गवत्पात्रधरणेऽप्यप्रमत्तस्य न क्षतिः / गतिवत् स न मोहोत्थो न च ध्यानं तदेष्यते पुद्गलोपचयावृद्धिस्त्वौदारिकशरीरिणाम् / जिनानां हि भवेत्तेन भग्नं नग्नाटनाटकम् परमौदारिकाङ्गानां सप्तधातुविवर्जितः / भुक्ति नापेक्षते कायस्तदसंभवबाधितः // 10 // अप्रमत्तगुणस्थानां न भुक्तिश्चेत् कुतः परः / बन्दीव प्रतिबन्दीयं सिद्धान्तवचनस्य नः // 11 // व्यभिचाराकुलं शुक्ललेश्यावत्त्वं प्रमत्तकैः / तद्विशिष्टमलेश्यत्वमसिद्धं चाप्रयोजकम् // 12 // क्षुदादयः केवलिनामेकादश परीषहाः / वेदनीयोदयोद्भूताः कवलाहारसाक्षिणः // 13 // किं रागहान्यतिशयो यथा तथा नैषु भुक्त्यभावस्य / आहारकथामात्रात् कथं च साधोः प्रमत्तत्वम् // 14 // वेद्योदयेऽपि तौल्याद्भुक्तिकथायाश्च मोहजनकत्वात् / प्रतिषेद्धव्य इति लपन्नुपासकाध्ययनटीकाकृत् // 15 // परम्परापराघातसंजातमतिविप्लवाः / तदेवं प्रतिषेद्धव्या युक्तिभिर्हरिदम्बराः // 16 // एवं साम्प्रतमुद्भवदाध्यात्मिकमतनिर्दलनदक्षम् / . रचितमिदं स्थलममलं विकचयतु सतां हृदयकमलम् // 17 // 150