SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अनन्तमर्जितं ज्ञानं त्यक्ताश्चानन्तविभ्रमाः / न चित्रं कलयाप्यात्मा हीनोऽभूदधिकोऽपि वा // 141 // धावन्तोऽपि नयाः सर्वे स्युर्भावे कृतविश्रमाः / चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः // 142 // सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं प्रवचनवचनं न क्वापि हीनं नयौघैः / गुरुचरणकृपातो योजयंस्तान् पदे यः . परिणमयति शिष्यांस्तं वृणीते यशःश्री: || 143 // गच्छे श्रीविज़यादिदेवसुगुरोः स्वच्छे गुणानां गणैः / प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः / तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् // 144 // .. // आध्यात्मिकमतपरीक्षा // श्रीवर्धमानं जिनवर्धमानं नमामि तं कामितकामकुम्भम् / आकारभेदेऽपि कुबुद्धिभेदे शस्त्रस्य तुल्यं यदुपज्ञशास्त्रम् // 1 // बन्धोदयोदीरणसत्पदाख्यमुवोष कर्मेन्धनमिद्धतेजाः / ध्यानानलेन प्रबलेन यो न्वः समग्रवित्पातु स वीरदेवः // 2 // नत्वा श्रीवीरतीर्थेशं कुतीर्थिकमदापहम् / / स्थाप्यते कवलाहारस्तत्प्रसादाग्जिनेशितुः अर्हतां यद्यतिशयाश्चतुस्त्रिंशत्ततो न किम् / विशेषसिद्धिः सामान्यसिद्धिमाक्षिपति स्फुटम् व्यापकं कारणं कार्यं सार्वयेन विरुध्यते / ननु तत्कवलाहारस्तेषां नाभ्युपगम्यते 151
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy