________________ // 25 // // 26 // . // 27 // . // 28 // // 29 // 18 / 19 / 20 / 21 / 22 / 23 / 24 / / सप्तः गाथास्त्रुटिताः। किञ्च भावमनो गच्छेद्, बहिर्द्रव्यमनोऽथवा / नाद्यः शरीरवृत्तित्वा-दात्मनोऽनिर्गमाद् बहिः कर्तृत्वं व्योमवन्न स्यात्, सर्वगत्वे किलात्मनः / प्रकृतेरेव कर्तृत्वं, युज्यते न कथञ्चन सर्वासर्वग्रहोऽप्येवं, 'नित्यस्याऽन्यानपेक्षणात् / अपेक्षणेपि देहस्या-ऽपेक्षायामतिगौरवात् विभुत्वसाधकं किञ्चित्, प्रमाणमपि नेक्ष्यते। स्वसम्बन्धविशेषेणा-ऽदृष्टं यत्कार्यमर्जति अथ नित्यमहत्त्वेन, व्योमवद्विभुताऽस्य चेत् / नैवं तत्परिमाणं हि, यदुत्कर्षापकर्षभाक् एवं सावयवत्वं तद्, नित्यत्वं नैव बाधते / कथञ्चित्परिणामित्वं, विना तन्न घटेत यत् मूर्तत्वादिप्रसङ्गोऽपि, वारणीयोऽनया दिशा / मानराजादरे दुष्टा, हन्तापत्तिर्न पत्तिवत् विभुत्वे पुनरात्मा स्या-देक एवान्तरिक्षवत् / उपपत्तेर्व्यवस्थाया, विविधोपाधिभेदतः बहिर्द्रव्यमनो गच्छेत्, किं यद्धीहेतुरेव न / निमित्तमपि नो तस्या-ऽकरणं वा बहिर्गतम् चिन्ताहर्षादिना जीवो-पघातानुग्रहौ यदि / किं ताभ्यां ज्ञेयसंसर्गा-न ह्येतौ मनसो यतः देहोपचयदौर्बल्ये, मन:पुद्गलहेतुके। आहारपुद्गलादीनां, तद्धेतुत्वेन निश्चयात् // 30 // // 31 // // 32 // // 33 // // 34 // // 35 // 135