________________ // 9 // // 10 // // 12 // // 13 // // 14 // प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनम् / श्राद्धो यतिश्च त्रिविधोऽनन्तांशक्षपकस्तथा दृङ्मोहक्षपको मोहशमकः शान्तमोहकः / क्षपकः क्षीणमोहश्च जिनोऽयोगी च केवली यथाक्रमममी प्रोक्ता असंख्यगुणनिर्जराः / यतितव्यमतोध्यात्मवृद्धये कलयापि हि ज्ञानं शुद्धं क्रिया शुद्धत्यंशौ द्वाविह संगतौ / चक्रे महारथस्येव पक्षाविव पतत्रिण: तत्पञ्चमगुणस्थानादारभ्यैवैतदिच्छति / निश्चयो व्यवहारस्तु पूर्वमप्युपचारतः चतुर्थेपि गुणस्थाने शुश्रूषाद्या क्रियोचिता / . अप्राप्तस्वर्णभूषाणां रजताभूषणं यथा अपुनर्बन्धकस्यापि या क्रिया शमसंयुता / . चित्रा दर्शनभेदेन धर्मविघ्नक्षयाय सा . अशुद्धापि हि शुद्धायाः क्रिया हेतुः सदाशयात् / तानं रसानुवेधेन स्वर्णत्वमधिगच्छति अतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि / द्रव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः यो बुद्ध्वा भवनैर्गुण्यं धीरः स्याद् व्रतपालने / स योग्यो भावभेदस्तु दुर्लक्ष्यो नोपयुज्यते नो चेद्भावपरिज्ञानात्सिद्ध्यसिद्धिपराहतेः / दीक्षाऽदानेन भव्यानां मार्गोच्छेदः प्रसज्यते अशुद्धानादरेऽभ्यासायोगान्नो दर्शनाद्यपि / सिध्येन्निसर्गजं मुक्त्वा तदप्याभ्यासिकं यतः 49 // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //