________________ पुत्रदारादि संसारो धनिनां मूढचेतसाम् / पण्डितानां तु संसारः शास्त्रमध्यात्मवर्जितम् // 72 // माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा / शास्त्रकोटिर्वृथैवान्या तथा चोक्तं महात्मना // 73 // वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा / तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ // 74 // इति यतिवदनात्पदानि बुद्ध्वा प्रशमविवेचनसंवराभिधानि / प्रदलितदुरितः क्षणाच्चिलातितनय इह त्रिदशालयं जगाम।। 75 // न चानेकान्तार्थावगमरहितस्यास्य फलितं कथं माध्यस्थ्येन स्फुटमितिविधेयं भ्रमपदम् / समाधेरव्यक्ताद्यदभिदधति व्यक्तिसदृशं फलं योगाचार्या ध्रुवमभिनिवेशे विगलिते // 76 // विशेषादोघाद्वा सपदि तदनेकान्तसमये समुन्मीलद्भक्तिर्भवति य इहाध्यात्मविशदः / भृशं धीरोदात्तप्रियतमगुणोज्जागररुचिर्यशः श्रीस्तस्याङ्क त्यजति न कदापि प्रणयिनी // 77 // ज्ञानयोगशुद्धिः द्वितीयोऽधिकारः दिशा दर्शितया शास्त्रैर्गच्छन्नच्छमतिः पथि / / ज्ञानयोगं प्रयुञ्जीत तद्विशेषोपलब्धये . // 1 // योगजादृष्टजनितः स तु प्रातिभसंज्ञितः / सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् // 2 // पदमात्रं हि नान्वेति शास्त्रं दिग्दर्शनोत्तरम् / ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुञ्चति ... 257