________________ // 12 // // 13 // .. // 14 // // 15 // // 16 // // 17 // शासनात्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते / वचनं वीतरागस्य तच्च नान्यस्य कस्यचित् वीतरागोऽनृतं नैव ब्रूयात्तद्धत्वभावतः / यस्तद्वाक्येष्वनाश्वासस्तन्महामोहजृम्भितम् शास्त्रे पुरस्कृते तस्माद्वीतरागः पुरस्कृतः / पुरस्कृते पुनस्तस्मिन्नियमान् सर्वसिद्धयः एनं केचित् समापत्तिं वदन्त्यन्ये ध्रुवं पदम् / प्रशान्तवाहितामन्ये विसभागक्षयं परे चर्मचक्षुर्भूतः सर्वे देवाश्चावधिचक्षुषः / सर्वतश्चक्षुषः सिद्धा योगिनः शास्त्रचक्षुषः परीक्षन्ते कषच्छेदतापैः स्वर्णं यथा जनाः / शास्त्रेऽपि वर्णिकाशुद्धि परीक्षन्तां तथा बुधाः विधयः प्रतिषेधाश्च भूयांसो यत्र वर्णिताः / एकाधिकारा दृश्यन्ते कषशुद्धि वदन्ति ताम् सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः / हिंसादीनां निषेधाश्च भूयांसो मोक्षगोचराः अर्थकामविमिश्रं यद्यच्च क्लृप्तकथाविलम् / आनुषङ्गिकमोक्षार्थं यन्न तत् कषशुद्धिमत् विधीनां च निषेधानां योगक्षेमकरी किया / वर्ण्यते यत्र सर्वत्र तच्छास्त्रं छेदशुद्धिमत् कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः / कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा अन्यार्थं किंचिदुत्सृष्टं यत्रान्यार्थमपोह्यते / / दुर्विधिप्रतिषेधं तन्न शास्त्रं छेदशुद्धिमत् // 18 // 19 // // 20 // // 21 // // 22 // // 23 // પર