________________ // 4 // कृपानिर्वेदसंवेगप्रशमोत्पत्तिकारिणः / . भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धयः इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् / स्थैर्य बाधकभीहानिः, सिद्धिरन्यार्थसाधनम् अर्थालम्बनयोश्चैत्यवन्दनादौ विभावनम् / . श्रेयसे योगिनः स्थानवर्णयोर्यत्न एव च आलम्बनमिह ज्ञेयं, द्विविधं रूप्यरूपि च / अरूपिगुणसायुज्ययोगोऽनालम्बनः परः प्रीतिभक्तिवचोऽसङ्गः, स्थानाद्यपि चतुर्विधम् / तस्मादयोगयोगाप्तेर्मोक्षयोगः क्रमाद् भवेत् स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि / सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते // 6 // // 7 // // 8 // // 1 // 28 नियागाऽष्टकम् यः कर्म हुतवान् दीप्ते, ब्रह्माग्नौ ध्यानधाय्यया / स निश्चितेन यागेन, नियागप्रतिपत्तिमान् पापध्वंसिनि निष्कामे, ज्ञानयज्ञे रतो भव / सावधैः कर्मयज्ञैः किं, भूतिकामनयाविलैः वेदोक्तत्वान्मनःशुद्ध्या, कर्मयज्ञोऽपि योगिनः / ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ? ब्रह्मयज्ञः परं कर्म, गृहस्थस्याधिकारिणः / पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः // 2 // // 3 // // 4 // 244