________________ // 1 // // 2 // // 3 // 26 अनुभवाऽष्टकम् सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् / बुधैरनुभवो दृष्टः, केवलाऽर्काऽरुणोदयः व्यापारः सर्वशास्त्राणां, दिक्प्रदर्शनमेव हि / पारं तु प्रापयत्येकोऽनुभवो भववारिधेः अतीन्द्रियं परं ब्रह्म, विशुद्धाऽनुभवं विना / शास्त्रयुक्तिशतेनाऽपि, न गम्यं यद् बुधा जगुः ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः / कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः केषां न कल्पनादर्वी, शास्त्रक्षीरान्नगाहिनी / विरलास्तद्रसास्वादविदोऽनुभवजिह्वया / पश्यतु ब्रह्म निर्द्वन्द्वंद्व, निर्द्वन्द्वानुभवं विना / कथं लिपिमयी दृष्टिर्वाङ्मयी वा मनोमयी . न सुषुप्तिरमोहत्वाद् नापि च स्वापजागरौ / कल्पनाशिल्पविश्रान्ते, स्तुर्यैवानुभवो दशा अधिगत्याखिलं शब्द-ब्रह्म शास्त्रदृशा मुनिः / स्वसंवेद्यं परं ब्रह्मानुभवेनाधिगच्छति // 4 // // 5 // // 6 // // 7 // | // 8 // 27 योगाऽष्टकम् मोक्षेण योजनाद्योगः, सर्वोऽप्याचार इष्यते / विशिष्य स्थानवालम्बनैकाग्रयगोचरः कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः / विरतेष्वेष नियमाद, बीजमानं परेष्वपि // 2 // '243