________________ // 15 // // 16 // // 17 // // . 18 // // 20 // विहाय पूर्वसंयोगमस्यामुपशमं व्रजन् / . मनाक्कायं प्रकर्षेण निश्चयेन च पीडयेत् वीराणां दुश्चरः पन्था एषोऽनागमगामिनाम् / आदानीयाभिधानानां भिन्दतां स्वसमुच्छ्यम् शरीरेणैव युध्यन्ते दीक्षापरिणतौ बुधाः / दुर्लभं वैरिणं प्राप्य व्यावृत्ता बाह्ययुद्धतः सर्वो यदर्थमारम्भः क्रियतेऽनन्तदुःखकृत् / सर्पलालनमङ्गस्य पालनं तस्य वैरिणः / शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः / / तेषामेकाकिभावोऽपि क्रोधादिनियतः स्मृतः नन्वेव तं विना साधोः कथं भिक्षाटनाद्यपि / न तस्य मोहजन्यत्वादसङ्गप्रतिपत्तितः ' ससङ्गप्रतिपत्तिर्हि ममता वासनात्मिका / असङ्गप्रतिपत्तिश्च मुक्तिवाञ्छानुरोधिनी अनादिकालानुगता महती सङ्गवासना / तत्त्वज्ञानानुगतया दीक्षयैव निरस्यते यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च / अत एव च तस्यैव दीक्षा सामायिकात्मिका नारत्यानन्दयोरस्यामवकाशः कदाचन / प्रचारो भानुमत्यभ्रे न तमस्तारकत्विषोः शुद्धोपयोगरूपेयमित्थं च व्यवतिष्ठते / व्यवहारेऽपि नैवास्या व्युच्छेदो वासनात्मना फले न तुल्यकक्षत्वं शुभशुद्धोपयोगयोः / येषामन्त्यक्षणे तेषां शैलेश्यामेव विश्रमः . // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // 208