________________ // 3 // // 5 // // 7 // // 8 // यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः / योग्यता तस्य दीक्षायामपि माषतुषाकृतेः . देया दीक्षास्य विधिना नामादिन्यासपूर्वकम् / हन्तानुपप्लवश्चायं संप्रदायानुसारतः नाम्नान्वर्थेन कीर्तिः स्यात् स्थापनारोग्यकारिणी / द्रव्येण च व्रतस्थैर्य भावः सत्पददीपन: इहादौ वचनक्षान्तिर्धर्मक्षान्तिरनन्तरम् / अनुष्ठानं च वचनानुष्ठानात् स्यादसंगतम् उपकारापकाराभ्यां विपाकाद्वचनात्तथा / धर्माच्च समये क्षान्तिः पञ्चधा हि प्रकीर्तिता प्रीतिभक्तिवचोऽसङ्गरनुष्ठानं चतुर्विधम् / आद्यद्वये क्षमास्तिस्रोऽन्तिमे द्वे चान्तिमद्वये / सूक्ष्माश्च विरलाश्चैवातिचारा वचनोदये / स्थूलाश्चैव घनाश्चैव तत: पूर्वममी पुनः ततो निरतिचारेण धर्मक्षान्त्यादिना किल / सर्वं संवत्सरादूर्ध्वं शुक्लमेवोपजायते मासादौ व्यन्तरादीनां तेजोलेश्याव्यतिकमः / पर्याये युज्यते चेत्थं गुणश्रेणिप्रवृद्धितः दिनानि पक्षा मासा वा गण्यन्ते शरदोऽपि च / नास्यां गुणाविघातस्य गण्यतेऽवसरः पुनः नैहिकार्थानुरागेण यस्यां पापविषव्ययः / वसन्तनृपचेष्टेव सा दीक्षानर्थकारिणी इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् / या शिरोमुण्डनव्यङ्ग्या तां सद्दीक्षां प्रचक्षते // 9 // // 10 // // 11 // // 12 // // 13 // // 14 //