________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // अज्ञातोञ्छं चरन् शुद्धमलोलोऽरसद्धिमान् / ऋद्धिसत्कारपूजांश्च जीवितं यो न काङ्क्षति यो न कोपकरं ब्रूयात् कुशीलं न वदेत्परम् / प्रत्येकं पुण्यपापज्ञो जात्यादिमदवर्जितः प्रवेदयत्यार्यपदं परं स्थापयति स्थितः / धर्मचेष्टां कुशीलानां परित्यजति यः पुनः उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा / यस्य नास्ति जुगुप्सा च क्रीडा चापि कदाचन इदं शरीरमशुचि शुक्रशोणितसंभवम् / अशाश्वतं च मत्वा यः शाश्वतार्थं प्रवर्तते स भावभिक्षुर्भेत्तृत्वादागमस्योपयोगतः / भेदनेनोग्रतपसा भेद्यस्याशुभकर्मणः / भिक्षामात्रेण वा भिक्षुर्यतमानो यतिर्भवेत् / . भवक्षयाद्भवान्तश्च चरकः संयमं चरन् क्षपकः क्षपयन् पापं तपस्वी च तपः श्रिया। भिक्षुशब्दनिरुक्तस्य भेदाः खल्वर्थतो ह्यमी तीर्णस्तायी व्रती द्रव्यं क्षान्तो दान्तो मुनिर्यतिः / ऋजुः प्रज्ञापको भिक्षुविद्वान् विरततापसौ बुद्धः प्रव्रजितो मुक्तोऽनगारश्चरकस्तथा / . पाखण्डी ब्राह्मणश्चैव परिव्राजकसंयतौ साधुलूक्षश्च तीरार्थी निर्ग्रन्थः श्रमणस्तथा / इत्यादीन्यभिधानानि गुणभाजां महात्मनाम् संवेगो विषयत्यागः सुशीलानां च संमतिः / ज्ञानदर्शनचारित्राराधना विनयस्तपः // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // 205