________________ // 7 // // 8 // क्रिया दोषव्यपोहश्च संदिग्धे साधुबोधनम् / श्रोतुः सूक्ष्मोक्तिराचारादयो ग्रन्थान् परे जगुः एतैः प्रज्ञापितः श्रोता चित्रस्थ इव जायते / दिव्यास्त्रवन्न हि क्वापि मोघाः स्युः सुधियां गिरः विद्या किया तपो वीर्यं तथा समितिगुप्तयः / आक्षेपणीकल्पवल्ल्या मकरन्द उदाहृतः स्वपरश्रुतमिथ्यान्यवादोक्त्या संक्रमोत्क्रमम् / विक्षेपणी चतुर्धा स्याहजोर्मार्गाभिमुख्यहत् अतिप्रसिद्धसिद्धान्तशून्या लोकादिगा हि सा / ततो दोषदृगाशङ्का स्याद्वा मुग्धस्य तत्त्वधी: क्षिप्त्वा दोषान्तरं दद्यात्स्वश्रुतार्थं परश्रुते / व्याक्षेपे चोच्यमानेऽस्मिन्मार्गाप्तौ दूषयेददः कटुकौषधंपानाभां कारयित्वा रुचिं सता / . . इयं देयान्यथा सिद्धिर्न स्यादिति विदुर्बुधाः मता संवेजनी स्वान्यदेहेहप्रेत्यगोचरा / . यया संवेज्यते श्रोता विपाकविरसत्वतः वैक्रियादयो ज्ञानतंपश्चरणसंपदः / शुभाशुभोदयध्वंसफलमस्या रसः स्मृतः चतुर्भङ्गीं समाश्रित्य प्रेत्येहफलसंश्रयाम् / पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा स्तोकस्यापि प्रमादस्य परिणामोऽतिदारुणः / वर्ण्यमानः प्रबन्धेन निर्वेजन्या रसः स्मृतः आदावाक्षेपणीं दद्याच्छिष्यस्य धनसन्निभाम् / विक्षेपणी गृहीतेऽर्थे वृद्ध्युपायमिवादिशेत् 155 // 13 // // 14 // // 15 // // 16 //