________________ // 28 // // 29 // हन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि / प्रसक्तिस्तदभावे चान्यत्रापीति मुधा वचः हिंस्यकर्मविपाके यदृष्टाशयनिमित्तता / हिंसकत्वं न तेनेदं वैद्यस्य स्याद्रिपोरिव इत्थं सदुपदेशादेस्तन्निवृत्तिरपि स्फुटा / सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः तथारुचिप्रवृत्त्या च ब्यज्यते कर्म तादृशम् / संशयं जानता ज्ञातः संसार इति हि श्रुतिः अपवर्गतरोर्बीजं मुख्याहिंसेयमुच्यते / . सत्यादीनि व्रतान्यत्र जायन्ते पल्लवा नवाः विषयो धर्मवादस्य निरस्य मतिंकर्दमम् / संशोध्यः स्वाशयादित्थं परमानन्दमिच्छता // 31 // // 32 // // 2 // कथाद्वात्रिंशिका // 9 // अर्थकामकथा धर्मकथा मिश्रकथा तथा / . कथा चतुर्विधा तत्र प्रथमा यत्र वर्ण्यते विद्या शिल्पमुपायश्चानिर्वेदश्चापि संचयः / दक्षत्वं सामभेदश्च दण्डो दानं च यत्नतः रूपं वयश्च वेषश्च दाक्षिण्यं चापि शिक्षितम् / दृष्टं श्रुतं चानुभूतं द्वितीयायां च संस्तवः तृतीयाक्षेपणी चैका तथा विक्षेपणी परा / अन्यसंवेजनी निर्वेजनी चेति चतुर्विधा . आचाराद्व्यवहाराच्च प्रज्ञप्तेदृष्टिवादतः / . . आद्या चतुर्विधा श्रोतुश्चित्ताक्षेपस्य कारणम् 154 // 4 //