________________ // 7 // // 8 // // 9 // // 10 // इष्टकादि दलं चारु दारु वा सारवन्नवम् / . गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः / धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु स्वाशयश्च विधेयोऽत्रानिदानो जिनरागतः / अन्यारम्भपरित्यागाज्जलादियतनावता . . इत्थं चैषोऽधिकत्यागात् सदारम्भः फलान्वितः / प्रत्यहं भाववृद्ध्याप्तैर्भावयज्ञः प्रकीर्तितः जिनगेहं विधायैवं शुद्धमव्ययनीवि च / . द्राक् तत्र कारयेद्बिम्बं साधिष्ठानं हि वृद्धिमत् विभवोचितमूल्येन कर्तुः पूजापुरःसरम् / . देयं तदनघस्यैव यथा चित्तं न नश्यति' यावन्तश्चित्तसन्तोषास्तदा बिम्बसमुद्भवाः / तत्कारणानि तावन्तीत्युत्साह उचितो. महान् .. तत्कर्तरि च याप्रीतिस्तत्त्वतः सा जिने स्मृता / पूर्या दौर्हदभेदास्तज्जिनावस्थात्रयाश्रयाः - स्ववित्तस्थेऽन्यवित्ते तत्पुण्याशंसा विधीयते / मन्त्रन्यासोऽर्हतो नाम्ना स्वाहान्तः प्रणवादिकः हेमादिना विशेषस्तु न बिम्बे किं तु भावतः / चेष्टया स शुभो भक्त्या तन्त्रोक्तस्मृतिमूलया लोकोत्तरमिदं ज्ञेयमित्थं यद्बिम्बकारणम् / मोक्षदं लौकिकं चान्यत् कुर्यादभ्युदयं फलम् / इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाप्तैस्त्रिधोदिता / दिनेभ्योऽर्वाग्दशभ्यस्तु व्यक्तिक्षेत्रमहाह्वयाः // 12 // // 13 // // 14 // // 16 // // 17 // 144