________________ // 43 // // 44 // // 45 // न चैवं सद्गृहस्थानां भिक्षा ग्राह्या गृहेषु यत् / स्वपरार्थं तु ते यत्नं कुर्वते नान्यथा क्वचित् संकल्पनं विशेषेण यत्रासौ दुष्ट इत्यपि / परिहारो न सम्यक् स्याद्यावदर्थिकवादिनः विषयो वास्य वक्तव्य: पुण्यार्थप्रकृतस्य च / असंभवाभिधानात् स्यादाप्तस्यानाप्ततान्यथा विभिन्न देयमाश्रित्य स्वभोग्याद्यत्र वस्तुनि / संकल्पनं क्रियोकाले. तद्दुष्टं विषयोऽनयोः स्वोचिते तु यदारम्भे तथासंकल्पनं क्वचित् / न दुष्टं शुभभावत्वात्तच्छुद्धापरयोगवत् दृष्टोऽसंकल्पितस्यापि लाभ एवमसंभवः / नोक्त इत्याप्ततासिद्धिर्यतिधर्मोऽतिदुष्करः // 46 // // 47 // // 48 // . // प्रच्छन्नभोजनाष्टकम् // 7 // सर्वारम्भनिवृत्तस्य मुमुक्षो वितात्मनः / पुण्यादिपरिहाराय मतं प्रच्छन्नभोजनम् // 49 // भुञ्जानं वीक्ष्य दीनादिर्याचते क्षुत्प्रपीडितः / तस्यानुकम्पया दाने पुण्यबन्धः प्रकीर्तितः // 50 // भवहेतुत्वतश्चायं नेष्यते मुक्तिवादिनाम् / पुण्यापुण्यक्षयान्मुक्तिरिति शास्त्रव्यवस्थितेः // 51 // प्रायो न चानुकम्पावांस्तस्यादत्त्वा कदाचन / . तथाविधस्वभावत्वाच्छक्नोति सुखमासितुम् // 52 // अदानेऽपि च दीनादेरप्रीतिर्जायते ध्रुवम् / ततोऽपि शासनद्वेषस्ततः कुगतिसन्ततिः / // 53 //