________________ तद्विरक्तः 6, प्रतनुकषायः 7, अल्पहास्यादिः 8 कृतज्ञः 9, विनीतः 10, प्रागपि राजामात्यपौरजनबहुमत: 11, अद्रोहकारी 12, कल्याणाङ्गः 13, श्राद्धः 14, स्थिरः 15, समुपसंपन्न 16, श्चेति 3 (229) / गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्यः 1, समुपासितगुरुकुलः 2, अस्खलितशीलः 3, सम्यगधीतागमः 4, तत एव विमलतरबोधात् तत्त्ववेदी 5, उपशान्तः 6, प्रवचनवत्सलः 7, सत्त्वहितरतः 8, आदेयः 9, अनुवर्तकः 10, गम्भीरः 11, अविषादी 12, उपशमलब्ध्यादिसंपन्नः 13, प्रवचनार्थवक्ता 14, स्वगुर्वनुज्ञात गुरुपद 15 श्चेति 4 (230) / पादार्द्धगुणहीनौ मध्यमावरौ 5 (231). / नियम एवायमिति वायुः 6 (232) / समग्रगुणसाध्यस्य तदर्धभावेऽपि तत्सिद्ध्यसंभवात् 7 (233) / नैतदेवमिति वाल्मीकिः 8 (234) / निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेः 9 (235) / अकारणमेतदिति व्यासः 10 (236) / गुणमात्रासिद्धौ गुणान्तरभावनियमाभावात् 11 (237) / नैतदेवमिति सम्राट् 12 (238) / संभवादेव श्रेयस्त्वसिद्धेः 13 (239) / यत्किञ्चिदेतदिति नारदः 14 (240) / गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् 15 (241) / सोऽप्येवमेव भवतीति वसुः 16 (242) / अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बकः 17 (243) / न दोषो योग्यतायामिति विश्वः 18 (244) / अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुः 19 (245) / सर्वमुपपन्नमिति सिद्धसेनः 20 (246) / भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति 21 (247) / उपस्थितस्य प्रश्ना-ऽऽचारकथनपरीक्षादिविधिः 22 (248) / गुरुजनाद्यनुज्ञा 23 (249) / तथा तथोपधायोग: 24 (250) / दुःस्वप्नादिकथनम् 25 (251) / विपर्ययलिङ्गसेवा 26 (252) / दैवजैस्तथा तथा निवेदनम् 27 (253) / न धर्मे माया 28 (254) / उभयहितमेतत् 29 (255) / यथाशक्ति सौविहित्यापादनम् 30 (256)