________________ प्रशस्तभावक्रिया 87 (220) / भवस्थितिप्रेक्षणम् 88 (221) / तदनु तन्नैर्गुण्यभावना 89 (222) / अपवर्गालोचनम् 90 (223) / श्रामण्यानुराग: 91 (224) / यथोचितं गुणवृद्धिः 92 (225) / सत्त्वादिषु मैत्र्यादियोग इति 93 (226) / विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः। एवं सद्भावनासारः परं चारित्रकारणम् / // 16 // पदंपदेन मेधावी यथाऽऽरोहति पर्वतम्। सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् // 17 // स्तोकान् गुणान् समाराध्य बहूनामपि जायते। यस्मादाराधनायोग्यस्तस्मादादावयं मतः // 18 // // चतुर्थः अध्यायः // एवं विधिसमायुक्तः सेवमानो गृहाश्रमम् / चारित्रमोहनीयेन मुच्यते पापकर्मणा // 19 // सदाज्ञाऽऽराधनायोगाद् भावशुद्धेनियोगतः / उपायसंप्रवृत्तेश्च सम्यक्चारित्ररागतः .. // 20 // विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम् / तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि . // 21 // इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्यामः 1 (227) / अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः 2 (228) / अथ प्रव्रज्याहः आर्यदेशोत्पन्नः 1, विशिष्टजाति- कुलान्वितः 2, क्षीणप्रायकर्ममल: 3, तत एव विमलबुद्धिः 4, दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः, इत्यवगतसंसारनैर्गुण्यः 5, तत एव ..